________________
श्रीदशवैकालिकसूत्रम्
३९७ जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे नो हणावए ।।९।।
यावन्तो लोके प्राणाः नसा अथवा स्थावराः । तान् जानन्-प्रयोजनेनापि । अजानन् वा- प्रमादेनापि । न हन्यात्, नापि घातयेत् । उभयग्रहणे तृतीयमनुक्तमपि लभ्यते । अतो जातोऽप्यान्यानानुजानीयादित्यर्थः ।।
अहिंसैव कथं साध्वीत्याहसव्वजीवावि इच्छंति, जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वजयंति णं ।।१०।। स्पष्टः । . उक्तः प्रथमस्थानविधिः, द्वितीयविधिमाहअप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया । हिंसगं न मुसं बूया, नो वि अन्नं वयावए ।।११।।
आत्मार्थम्-अग्लानोऽपि ग्लानोऽहं ममानेन कार्यमित्यादि । परार्थ-मप्येवमेव। क्रोधाद् वा-त्वं दास इत्यादि । एकग्रहणे तज्जातीयग्रहणमिति । मानादबहुश्रुतोऽप्यहं बहुश्रुत इत्यादि । मायातः भिक्षाटनालस्यान्ममाद्यपीडेत्यादि । लोभात् स्वादिटनान्नलाभे सति प्रान्तमेषणीयमप्यनेषणीयमित्यादि । यदि वा भयात्-कृतमप्यकृत्यमपलपति । एवं हास्यादेरपि । हिंसकाम्-परपीडाकराम् । न मृषां ब्रूयात्। नाप्यन्यं वादयेत्ब्रुवतोऽप्यन्यान्नांनुजानीयात् ।।
किमेतदेवमित्याहमुसावाओ य लोयम्मि, सव्वसाहूहिं गरहिउ ।। अविस्सासो य भूयाणं, तम्हा मोसं विवजए ।।१२।। स्पष्टः । नवरम् । भूतानाम्-प्राणिनाम् ।। उक्तो द्वितीयस्थानविधिः, तृतीयमाह
* दिएवं २.४-९.११.१२ ।। . ०मा० १.३ ।। ० ०लम्पति १, ति ३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org