________________
३९६ . श्रीतिलकाचार्यविरचितटीकायुतम्
सखुड्डुगवियत्ताणं, वाहियाणं च जे गुणा ।। अखंडफुल्ला कायव्वा, तं सुणेह जहा तहा ।।६।।
सक्षुल्लकव्यक्तानाम्-सबालवृद्धानां द्रव्यभारूपाणाम् । व्याधिमतां च । ये गुणाः-वक्ष्यमाणाः । ते अखण्डस्फुटिताः कर्तव्याः-अखण्डा-देशाविराधनया, अस्फुटिताः । सर्वाविराधनया । तच्छृणुत । यथा-कर्तव्याः । तथेति ।।
ते चागुणत्यागेन स्युरित्यगुणास्तावदुच्यन्तेदस अट्ठ य ठाणाणि, जाइं बालोवरजई । .. तत्थमन्नयरे ठाणे, निग्गंथत्ताउ भस्सई ।।७।।
दशाष्टौ च स्थानानि यानि बाल:- अज्ञोऽपराध्यति । तत्र -तेषाम् । अन्यतरे स्थाने-प्रमादाद् वर्तमानः । निग्रन्थभावाद् भ्रस्यति । कानि पुनस्तानि स्थानानीत्यह
वयछक्कं कायक्वं, अकप्पो गिहिभायाणं ।
पलियंकनिसिज्जा य, सिणाणं सोहवजणं ।।१।। [दशवै० नियुक्ति २६८] प्राणातिपातविरत्यादीनि रात्रिभोजनविरतिषष्ठानि व्रतानि व्रतषट्कम् । अस्यानासेवनेना गुणत्वम् । कायषटकम्-पृथ्वादयः षट्जीवानिकायाः । एषामरक्षणेनागुणत्वम् । अकल्पशिक्षकस्थापनाल्पादिः । गुहिभाजनम्-कांस्यस्थालम् । पल्यङ्कः-खट्वा । निषद्या-गृहे निषदनम् आसनम् । स्नानम्-देशसर्वभेदभिन्नम् । अकल्पादीनां पञ्चानामासेवनेनागुणत्वम्। शोभया अवर्जनमगुणः । द्वारगाथेयम् ।
गुणा अष्टादशसु स्थानेषु अखण्डस्फुटिताः कर्तव्या इत्युक्तम् । तत्र विधिमाहतत्थिमं पढमं ठाणं, महावीरेण देसियं । अहिंसा निउणा दिट्ठा, सव्वभूएहि संजमो ।।८।।
तत्रेदम्-अष्टादशसु स्थानेषु प्रथमं स्थानं महावीरेण देशितम् । किं तत् ? अहिंसेति-इयमन्यैरप्युक्ता । परं निपुणा-आधाकर्मादिभोगत्यागेन सूक्ष्मा स्वामिनैव । दृष्टा-साक्षाद् धर्मसाधकत्वेनोपलब्धा । अतोऽस्यामेव श्रीमहावीरदेशितायां सर्वभूतेषुसर्वभूतविषयः । संयमः-नान्यत्र आधाकर्मादिभोगात् ।।
तदेव स्पष्टयन्नाह* गाथेयम् २.३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org