________________
श्रीदशवैकालिकसूत्रम्
३९५
ज्ञानम्-श्रुतज्ञानादि । दर्शनम् - क्षायोपशमिकादि । ताभ्यां सम्पन्नम्-युक्तम् ।
I
संयमे तपसि च रतम् । गणिनम् - आचार्यम् । आगमसम्पन्नम्-विशिष्टश्रुतधरम् । उद्याने-उद्यानस्थे प्रासादे । समवसृतम् - अवस्थितम् ।।
·
तत्र च
रायाणो रायमचा य, माहणा अदुव खत्तिया ।
पुच्छंति निहुयप्पाणे कहं भे आयारगोयरं ? ।।२ ।।
पूर्वार्द्ध स्पष्टम् । पृच्छन्ति । निभृतात्मानः - एकाग्रचित्ताः । कथं भो भवताम्
आचारगोचर इति ।।
तेसिं सो निहुउ दंतो, सव्वभूयसुहावहो ।
सिक्खाए सुसमाउत्तो, आयक्ख वियक्खणे ||३||
स्पष्टः । नवरम् । शिक्षया-ग्रहणासेवनरूपया । सुष्ठु समायुक्तः ।। हंदि धम्मत्थ कामाणं, निगंथाण सुणेह मे ।
आयारगोयरं भीमं सयलं दुरहिट्ठियं ॥ ४ ॥
1
हंदीति - सम्बोधने । धर्मः चारित्रधर्मः, तस्यार्थः- प्रयोजनं मोक्षस्तत्र, कामो ऽभिलाषो येषां ते धर्मार्थकामास्तेषां धर्मार्थकामानाम् । निर्ग्रन्थानां शृणुत । मे मम पार्श्वात् । आचारः क्रियागोचरो, महत्वाल्लक्षणया कलापः तम्, आचारगोचरम्-क्रियाकलापम् । भीमम्-कर्मशत्रून् प्रति रौद्रम् । सकलम् - सम्पूर्णम् । दुरधिष्ठम् - हीनसत्त्वैर्दुःपालम् ।।
अस्यैवाचारगुरुतामाह
नत्रत्थ एरिसं वृत्तं, जं लोए परमदुवरं । विउलट्ठाणभाइस्स, न भूयं न भविस्सइ ॥ ५ ॥
I
नान्यत्र - मिथ्यादृग्मते । ईदृशम् - आचारललितम् । उक्तम् । यल्लोके - षष्ठ्यर्थे सप्तमी, लोकस्य सामान्यजनस्य । परमदुश्चरम् - अत्यन्तदुःकरम् । विपुलं-विशालमनन्तं, स्थानं - अवस्थानं, यत्र स विपुलस्थानो मोक्षस्तद्धेतुत्वात् संयमोऽपि विपुलस्थानं तद् भाजिनः - तदासेविनः । न भूतं न भविष्यति - अन्यज्जिनमतात् ।।
१. असम्भ्रातः १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org