________________
३९४ श्रीतिलकाचार्यविरचितटीकायुतम्
लब्ध्वापि देवत्वम् । उपपन्नो देवकिल्बिषः-किल्बिषिकदेवः । तत्रापि सन जानाति-विशुद्धावधिज्ञानाभावात् । किं कृत्वा ममेदं फलं जातमिति शेषः ।।
अस्यैव दोषान्तरमाहतत्तो वि से चइत्ताणं, लब्भिही एलमूययं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥४८॥ स्पष्टः । से-इत्यसौ । एडमूकताम्-अवाक्श्रुतित्वम् ।।. . प्रकृतमुपसंहरन्तिएयं च दोसं दट्टणं, नायपुत्तेण भासियं । । अणुमायंपि मेहावी, मायामोसं विवजए ।।४९।। .
ज्ञातपुत्रेण-श्रीमहावीरेण भाषितम् । अणुमात्रमपि-स्तोकमपि । मेधावीसाधुः । मायामृषावादम्-अनन्तरोक्तम् । विवर्जयेत् ।।
__ अध्ययनार्थमुपसंहरन्नाहसिक्खिऊण भिक्खेण सोहिं, संजयाण बुद्धाणं सगासे । तत्थ भिक्खू सुप्पणिहिदिए, तिव्वलजगुणवं विहरिजासित्ति बेमि ॥५०॥
पूर्वार्धं स्पष्टम् । उत्तरार्द्धस्यायमर्थः । तत्र भिक्षुः सुप्रणिहितेन्द्रियः । तीव्रो लजागुणः-यस्यासंयमकरणे स तीव्रलज्जागुणवान् । विहरेत् । ब्रवीमीति प्राग्वत् ।।
।। इति पिण्डषणाद्वितीयादेशकः ।। ।। पिण्डेषणाध्ययनटीका समाप्ता ।।
॥ षष्ठं महाचारकथाध्ययनम् ।। अनन्तराध्ययने पिण्डशुद्धिरुक्ता । तत्र च गृहादौ पृष्टेन, न सविस्तरः स्वाचारो वाच्यः । किन्तु स्वाश्रये । स च क्षुल्लिकाचारकथातो महान् महाचारकथायां सविस्तरं वाच्य इति महाचारकथाध्ययनं व्याख्यायते । तच्चेदम्
नाणदंसणसंपन्नं, संजमे य तवे रयं ।।
गणिमागमसंपन्नं, उज्जाणम्मि समोसठं ॥१॥ १. बधिरश्चासौ मूकः १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org