________________
३९० श्रीतिलकाचार्यविरचितटीकायुतम् वदेत्-वृथा ते वन्दनमित्यादीति ।।
तथाजे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामन्नमणुचिट्ठई ॥३०॥
यो-गृही । न वन्दते । से-तस्य । न कुप्येद् । वन्दितः-केनचिन्नृपादिना । न समुत्कर्षेत्-नोत्कर्ष कुर्यात् । एवमन्वेषमाणस्य-जिनाज्ञां पालयतः । श्रामण्यम्शुद्धम् । अवतिष्ठते ।
स्वपक्षस्तेय प्रतिषेधमाहसिया एग्गयओ लद्धं, लोभेणं विनिगृहए । मामेयं दाइयं संतं, दट्टणं सयमायए ॥३१॥
स्यात् कदाचित् । एकक:-जघन्यसाधुः । लब्धम्-उत्कृष्टं भोज्यम् । लोभेन विनिगहते-अहमेवेदं भोक्ष्ये, इत्यान्तप्रान्तेन पिधत्ते । मा ममेदम्-भोज्यम् । दर्शितं सन् । द्रष्ट्वा-आचार्यादिः । स्वयमाददीतेति ॥
अस्य दोषमाहअत्तट्ठागरुओ लुद्धो, बहुं पावं पकुबई । दुत्तोसओ य सो होइ, निव्वाणं च न गच्छई ॥३२॥
आत्मार्थ एव गुरुर्यस्य स आत्मार्थगुरुरुदरम्भरिर्जघन्यो न प्रायोग्यं गुर्वादि योग्यं दर्शयति । स बहु पापं प्रकरोति । दुस्तोश्च स भवति-सदा स्वादिष्टालाभात् । अत्र निर्वाणम्-सुखं, परत्र निर्वाणम्-मोक्षम् । न गच्छति-गृह्या प्रबलमोहत्वेन गुर्वभक्तव्या अनन्तसंसारित्वात् ।।
एष प्रत्यक्षापहारी, परोक्षापहारिमाहसिया एगयओ लद्धं, विविहं पाणभोयणं । भद्दगं भद्दगं भुशा, विवन्नं विरसमाहरे ॥३३।।
स्यादेकक:-भिक्षागतः । प्राग्वद् लब्ध्वा । विविधं पानं भोजनम् । भद्रकं भद्रकम्घृतपूर्णादि बहिरेव क्वापि भुक्त्वा । विवर्णं विरसम्-शीतोदनादि । वसतावाहरेत्-आनयेत् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org