________________
श्रीतिलकाचार्यविरचितटीकायुतम्
अर्गलाम्- गोपाटकादौ । परिधम्-प्रतोल्यादौ । द्वारम् द्वारशाखारूपम् । कपार्ट वापि संयतः । अवलम्ब्य न तिष्ठेत् । गोचराग्रगतो मुनिः । लाघवापत्ते: ।। उक्ता द्रव्ययतना, भावयतनामाह
समणं माहणं वावि, किविणं वा वणीमगं ।
३८६
उवसंकमंतं भत्तट्ठा, पाणट्ठाए व संजए ।। १० ।।
स्पष्टः ! नवरम् । कृपणम्-क्षुद्रभिक्षाचरम् । उप-सामीप्येनं, सङ्क्रामन्तम्गच्छन्तम् ।।
तमइक्कमित्तु न पविसे, न चिट्टे चक्खुफास ।
एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए ।। ११ । ।
तान् अतिक्रम्य-उल्लङ्घया । न प्रविशेत्, न तिष्ठेत् तेषां चक्षुर्गोचरे । उत्तरार्थं स्पष्टम् ।। तत्र प्रवेशे चैते दोषा इत्याह
वणीमगस्स वा तस्स, दायगस्सुभयस्स वा ।
अप्पत्तियं सिया हुज्जा, लहुत्तं पवयणस्स वा । । १२ । ।
स्पष्टः । नवरम् । अहो ! अलौकिकतैषामिति लघुत्वं प्रवचनस्येति ।।
तस्मात् तत्र न गच्छेत्, किन्तु -
पडिसेहिए व दिने वा, तओ तम्मि नियत्तिए ।
उवसंकमिज्ज भत्तट्ठा, पाणट्ठाए व संजए ।। १३ ।।
स्पष्टः । परपीडाप्रतिषेधाधिकारादिदं चाह
उप्पहं पउमं वावि, कुमुयं वा मगदंतियं ।
अन्नं वा पुप्फसचित्तं तं च संलुंचिया दए । । १४ ।। उप्पलम्-नीलोत्पलम् । पद्मम्- अरविन्दम् । कुमुदम्- कैरवम् । मगदंतियंमेत्तिका, या बालादिभिर्नखरञ्जनार्थं वर्त्तित्वा हस्ताङ्गुलीषु दीयते । मल्लिका वावि च किल कलिका ताम् । अन्यद्वा पुष्पं सचित्तम् । तच संलुञ्च्य - छित्त्वा । भक्तपानादि
1
दद्यात् ।
* स्पर्शे १-५. ११ ।। ०लो० १-५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org