SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् अकाले चरसि भिक्खू, कालं न पडिलेहसि । अप्पणं च किलामेसि, सन्निवेसं च गरिहसि ।। ५ ।। अकालचारी साधुः केनचित् साधुना भिक्षा प्राप्ता न वेत्युक्तः सन्नेवं वदेत् । कुतो तद्दुःसन्निवेशे भिक्षा ? । सोऽथ तेनोच्यते । अकाले चरसि भिक्षो !, प्रमादात् कालं न प्रत्युपेक्षसे । अकालचरणादात्मानं च क्लमयसि । अपूर्णपात्रतया सन्निवेशं च गर्हसे ।। अतोऽकालाटनं न कार्यमित्याह सइ काले चरे भिक्खू, कुज्जा पुरिसकारियं । अलाभुत्ति न सोइज्जा, तवृत्ति अहियास || ६ || सति काले-जाते समये । चरेद् भिक्षुः । कुर्यात् पुरुषकारम् - वीर्याचारं न लङ्घयेत् । भिक्षायाः कथञ्चिदलाभे, अलाभ इति न शोचयेत् । किन्तु तपो भविष्यतीत्यधिसहेत . ।। उक्ताकालयतना, क्षेत्रयतनामाह तहेवुवावया पाणा, भक्तट्ठाय समागया । तउज्जयं न गच्छिज्जा, जयमेव परक्कमे ।।७।। ३८५ तथैवोच्चावचाः । प्राणिनः - कार्पटिक - काक-श्वानादयः । भक्तार्थम् - भिक्षा बलिप्राभृतिकाहेतोः आगताः । तदृजुकम् - तेषामभिमुखम् । तन्मध्ये न गच्छेत्, तदधिकरणसन्त्रासनान्तरायदोषात् । किन्तु यतमेव पराक्रमेत् । तेषामुद्वेगमकुर्वन् ।। गोयरग्गपविट्ठो उ, न निसीइज्ज कत्थई । कहं च न पबन्धिज्जा, चिट्ठित्ता ण व संजाए ||८|| गोचराग्रप्रविष्टो न निषीदेत् । गृहादौ, स्थित्वा वा तत्र संयतः कथां चधर्मकथादिकाम् । न बध्नीयात् - प्रबन्धेन कुर्यात् । अनेषणाद्वेषादिदोषप्रसङ्गात् ।। उक्ता क्षेत्रयतना, द्रव्ययतनामाह अग्गलं फलिहं दारं, कवाडं वावि संजए । अवलंबिया न चिट्टिज्जा, गोयरग्गगओ मुणी ।।९।। For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy