________________
श्रीदशवैकालिकसूत्रम्
सोऽवग् महात्मन्नधुना वलित्वा, कौपीनमानेतुमहं प्रगस्ये ।
सरित्तटोच्चस्थलकद्रुमाग्रे, विलम्बितं विस्मृतमस्ति यत्तत् ।।४१।। उपजातिः श्रेष्ठी तमूचे मुनिराजमागाः, स्वमादिशत् कर्मकरं तदर्थे ।
गत्वाशु गृह्णन् तदसौ तटिन्यास्तं कोटरान्तस्तुरङ्ग लुलोक ।। ४२ ।। उपजातिः तदैव तद्दर्शनजात् स हर्षात्, रोमाञ्चमुचैर्बिभराञ्चकार ।
कौपीनमादाय समागतः सन्, धनं से वर्द्धापयति स्म सद्यः ।।४३।। उपजातिः कौपीनमेतस्य समाददानः, स्वामिन्नपश्यं तमहं त्वदश्वम् ।
श्रेष्ठी प्रहृष्टस्तरसा तुरङ्ग-मानाययामास तमुत्सवेन ।। ४४ ।। उपजातिः
श्रेष्ठी घनो भौतमुनिं बभाषे कृतस्य नः प्रत्युपकार एषः ।
,
त्वया कृतो घोटकदर्शनेन, तद्गम्यतां सम्प्रति ते नमोऽस्तु ।। ४५ ।। उपजातिः श्रेष्ठी धनो निर्मलधर्मकर्म, निर्माय निर्माणकृतेऽपरेद्युः ।
हट्टे निविष्टो हरिविष्टरेऽस्ति, द्रष्टुं मुनीनध्वनि दत्तदृष्टिः ।। ४६ ।। उपजातिः चारित्रधर्मः कृतमूर्तियुग्मो, द्वेषं च रागं च किल प्रहन्तुम् ।
शान्तो रसो वाहयुगेन जज्ञे, दुर्ध्यानयुग्माग्निशमाय यद्वा ।। ४७ ।। उपजातिः धर्मं च शुक्लं च किलेह यद्वा, ध्याने उभे मूर्त्तिमती अभूताम् ।
चन्द्रश्च सूर्यश्च मनुष्यरूपौ, तमोविघाताय किलावतीर्णौ ।।४८ ।। उपजातिः एवं विंकल्पास्पदमानताङ्गं, दूरादुपागच्छदतुच्छशोभम् ।
जैनं महर्षिद्वितयं पुरस्तात्, श्रेष्ठी धनः प्रेक्षत विस्मिताक्षः ।। ४९ ।। उपजातिः श्रेष्ठी समुत्थाय समेत्य पार्श्वे, प्रणम्य पप्रच्छ गमागमाद्यम् ।
बृहन्मुनिस्तस्य समस्तमाख्यत्, यथास्थितं सत्यगिरो हि सन्तः ।। ५० ।। उपजातिः श्रेष्ठी ततः प्रार्थयते स्म वर्षा - हेतोर्मुनी तौ प्रतीपन्नमाभ्याम् ।
पुनर्बभाषे स यथास्मदीयं, यान्तं न वायान्तमपीह वाच्यम् ।।५१।। उपजातिः साधुस्तमूचे किमिदं त्वयोक्तं - मस्त्यागमे न्यस्तमिदं जिनेन्द्रैः ।
'यथा विधेया गृहिणां न काचि - चिन्ता शुभे वाप्यशुभे मुनीन्द्रैः ।।५२।। उपजातिः ०या० ६-१० ।। ५ ०केर ६-१० ।। समर्थापयते ६-१० ।। ९. प्रवाहयुग्मेन १० टि० ।। २.
•
विकल्पस्थानम् १० टि० ।।
Jain Education International
३८१
For Personal & Private Use Only
www.jainelibrary.org