________________
३८० .
श्रीतिलकाचार्यविरचितटीकायुतम् एकः समायाति च याति चैकः, जीवस्य न कोऽप्यपरः सहायः । श्रेष्ठी वचस्तस्य निशम्य हृष्टो, दध्यौ च सोऽयं गुरुरात्मनीनः ।।२८ ।। उपज़ातिः अथार्थयामास निवासहेतोः, परीक्षितुं धर्मरहस्यमस्य । न चेत् तवाग्रेऽस्ति विशेषकार्य, वर्षां महर्षेऽत्र ततः कुरुष्व ।।२९।। उपजातिः श्रेष्ठी महात्मेति वचस्तदीयं, तपोधनोऽपि प्रतिपद्यते स्म । गुरुर्गरीयानपि युक्तियुक्तां, न मन्यते किं निजशिष्यवाचम् ?।।३०।। उपजातिः श्रेष्ठी पुनः स्माह मुनेऽस्मदीया, त्वया विधेया न कदापिचिन्ता । किञ्चिद् विनश्यद् यदि वा प्रणश्यद्, दृष्ट्वापि नस्तन्न निवेदनीयम् ।।३१।। उपजातिः मेने तदप्येष ततः स्वगेहा-सन्ने गृहे स्थापयति स्म तं सः । देवं यथा देवकुलस्य मध्ये, सर्वस्ववद् वा स्वमभीष्टदेशे ।।३२।। उपजातिः स्थितः स तत्रास्ति सुखं सुखेन, नैवोदितं नास्तमितं च वेद । श्रेष्ठी धनस्तस्य करोत्युपास्ति, सदैव तत्कृत्यमेवेक्षते च ।।३३।। उपजातिः
अन्येचुरश्वोऽश्वहरेण जहे, सर्वोत्तमः श्रेष्ठिगृहानिशान्ते । तदा स निर्वाहयितुं न वाहं, शशाक भूतोऽनुगवाजिसैन्यात् ।।३४।। उपजातिः अन्तर्नदीकोटरमश्वरत्नं, बद्ध्वा स्वयं स स्थितवानदृश्यः । स्वः श्रेष्ठिनो वाजिनियुक्तपुंसा; न्यवेदि निश्यद्य हृतोऽश्वराजः ।।३५ ।। उपजातिः श्रेष्ठी तदाकर्ण्य विवर्णवक्त्रो, भूपाय विज्ञापयति स्म सद्यः । तमश्वमन्वेषयितुं समन्तात्, अश्वाः छुटन्ति स्म नृपाज्ञयाथ ।।३६।। उपजातिः पदान्यपि क्वापि हरेर्न तस्य, पथेषु पाथः स्विव वीक्षितानि । विष्वक् परिभ्रम्य ततो वलित्वा, समागतान्यश्वदलानि पश्चात् ।।३७ ।। उपजातिः तपस्व्यपि श्रेष्ठिनमश्वहानेः, दुःखार्त्तमालोक्य सदु:खचित्तः । गत्वा स नद्यां कृतवान् स्वकृत्यं, स्नानादि सर्वं मनसा विनापि ।।३८ ।। उपजातिः स क्लिन्नकौपीनविसारणार्थं, गिराविवोच्चस्थलकेऽधिरूढः । विसारयंस्तद्विटपे धनस्य, हरिं सरि त्कोटरगं ददर्श ।।३९।। उपजातिः बुद्ध्या मुनिर्बोधयितुं तुरङ्ग-वार्ता धनं तत्र तथैव मुक्त्वा । .
कौपीनमागाद् वलितस्तदैव, वलन् धनेनौच्यत भो ! क्व यासि? ।।४०।। उपजातिः *स्ति तद्रदेशे ६-१० ।। १. पाणीने विषे १० टि० ।। . ०भा० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org