________________
श्रीदशवैकालिकसूत्रम्
३७९ न भौतिका वा न च कोपिला वा, नौशाम्बरा वा न सिताम्बरा वा । नापि द्विजा वा न च सौगता वा, चित्ते तदीये न्यविशन केचित् ।।१६।। उपजातिः आरम्भसंरम्भभृतः समस्ता, मठाधिपपत्येन धृताभिमानाः । लुप्तव्रता द्रव्यपरिग्रहेण, मिथ्योपदेशा रसगृद्धिभाजः ।।१७।। उपजातिः मायाविनश्चाटुरवप्रपञ्चास्तिष्ठन्ति सर्वेऽपि गृहस्थकल्पाः । मन्त्रैश्च यन्त्रैश्च महौषधैश्च, दातॄन् गृहस्थान् वशयन्ति धूर्ताः ।।१८।। उपजातिः न ब्रह्मचर्यं न तपो जपो वा, कुर्वन्ति चान्यत् कथयन्ति चान्यत् । तत्कीदृशं धर्मगुरुत्वमेषा-मेवं विमृश्यापसृतः स तेभ्यः ।।१९।। उपजातिः अशुद्धदृष्टिश्चरणोज्झितश्च, स्यात् किं नृणामिष्टगतौ सहायः ? । किं तारयेल्लोहमयं वहिलं ?, दद्याद् दरिद्रोऽर्थिषु वैभवं किम् ? ।।२०।। उपजातिः ।
वैरङ्गिको वेषतपोनेभ्यः, हट्टोपविष्टः परितोऽस्ति पश्यन् । आगच्छतः कांश्चन धर्मवित्तान्, संसारभावेषु निरीहचित्तान् ।।२१।। उपजातिः अथैकदा यान्तमपश्यदेकं, भौतं मुनिं दूरतरप्रदेशात् । अमन्दवेगां गतिमादधानं, कौपीनमात्रं वसनं वसानम् ।।२२।। उपजातिः भूत्या समुद्धूलितसर्वगात्रं, सञ्चन्दनेनेव कृतानुलेपम् । प्रलम्बमानाग्रजटाकलापं, न्यग्रोधवल्लोललुन्प्ररोहम् ।।२३।। उपजातिः विष्वक् स्नसाजालकशालमानं, अनोवदाजिनवर्धवेष्टम् । शिप्रोपमानांहिनखं महर्षि, निरीक्ष्यसाक्षादिव मूर्तमीशम् ।।२४।। उपजातिः ..उत्थाय तस्मै कृतवान् प्रणामं, बद्धाञ्जलिर्भक्तिभरावनम्रः । पप्रच्छ पीयूषसमैर्वचोभि-र्मुनेविलुम्पन्निव मार्गखेदम् ।।२५।। उपजातिः कुतो भवानागतवान् ? महर्षे !, यातासि कुत्र ? क्व च वा मठस्ते? । कथं त्वमेकाक्यसि ? किं तवास्ति?, ग्रामः क्षितिर्वा न हि शासने ते ।।२६। उपजाति: सोऽथाह तीर्थानि नमनिहागां, कुत्राप्यहो भद्र ! न मे मठोऽस्ति । स्थानं न वा चिन्तितमस्ति यातुं, ग्रामः क्षितिर्वापि न शासने मे ।।२७।। उपजातिः १. शिवमती १० टि० ।। २. साङ्ख्यमतवाला १० टि० ।। ३. दिगम्बराः १० टि० ।। ४. बौद्ध १० टि० ।। * ०वसन्न २.४-१० ।। न० ६-९ ।। ५. शकटवत् १० टि० ।। ६. चर्म० ।। ० ०न १-५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org