________________
३७८ श्रीतिलकाचार्यविरचितटीकायुतम् तस्मिन्नपेन्द्रो नरदेवनामा, सुगूढमन्त्रो नगरव्यथार्त्तः । निस्त्रिंश उग्रो भुजगः स यस्य, लग्नः परैर्न क्षणमप्यसाहि ।।४।। उपजातिः निर्लक्ष्मपीयूषमयूखभांसि, यशांसि यस्य प्रसरन्ति सन्ति । दिग्दन्तिगण्डस्थितभृङ्गमालां, नयन्ति मुक्ताफलदामलक्ष्मीम् ।।५।। उपजातिः श्रेष्ठी गरिष्ठप्रवरप्रतिष्ठः, तस्मिन् पुरे तिष्ठति साधुनिष्ठः । नाम्ना धनः प्राज्यधनः प्रशस्यः, साधर्म्यमभ्येति न कोऽपि यस्य ।।६।। उपजातिः सर्वेषु पौरेषु सदानुकूलः, प्राज्यैर्गुणौधैर्दृढबद्धमूलः । पुत्रैश्च पौत्रैश्च वृतः कृती स, स्वयं च यं शंसति मेदिनीशः ।।७।। उपजातिः दीनेषु दुस्थेषु च सानुकम्पः, हर्षोन्मुखोऽन्येषु च याचकेषु । . यः पुष्करावर्त्तकवत्तडित्वान्, ववर्ष नित्यं स्वपरानपेक्षः ।।८।। उपजातिः ..
आँबालकालादपि यः स्वभावा-दनन्यसामान्यगुणोल्वणश्रीः । स्वार्थे प्रमादी प्रगुणः परार्थे, न कस्य कस्येह स वल्लभोऽभूत् ।।९।। उपजातिः । अजातशत्रुर्जगदेकमित्रं, कुटुम्बबुद्धिर्नगरे समग्रे ।। निसर्गतोऽत्युज्वलचित्तवृत्तिः, परं न धर्म क्वचन प्रवृत्तिः ।।१०।। उपजातिः
अथान्यदा रात्रिविरामयामे, श्रेष्ठी प्रबुद्धः कुरुते स्म चिन्ताम् । भवेऽत्र पुण्यानि पुरा कृतानि, तिष्ठान्ति भोग्यत्वमुपागतानि ।।११।। उपजातिः नूनं मया किञ्चन कर्म चक्रे, तत् तादृशं पुष्करमल्पधैर्यात् । तपांस्यखण्डानि कृतानि सम्यक्, विवृद्धभावं प्रददे च दानम् ।।१२।। उपजातिः एषा विभूतिर्जनमान्यता च, जातेयमीदृक् कथमन्यथा मे । लुनात्यनुप्तं न हि कोऽपि यस्मात्, न चान्यदुत्वान्यतरद् लुनीते ।।१३।। उपजातिः करोमि तद्भाविभवस्य हेतोः, कर्माद्भुतं सम्प्रति किञ्चनापि । जायते यत् तत् सहसं चरिष्णु, कोशोपमं जीवनृपप्रयाणे ।।१४ ।। उपजातिः एवं विचिन्त्योत्थितवान् प्रभाते, प्राभातिकं कृत्यविधिं विधाय । परीक्षितुं धर्मगुरुं स धर्मा-काङ्क्षी ययौ दर्शनिनां मठेषु ।।१५।। उपजातिः * स्तुं० १-५ ।। - शशिप्रभाभांसि परोरजांसि २.६-१०, अयं मूलपाठ: १० टिप्पण्यामपि ।। - जनस्य सर्वाणि समीहितानि कार्याणि कुर्वन्नुपकारकारी २.६-१० ।। स्वभावतो २.६-१० ।। २. दुष्करमल्पकैर्यत् १-५ ।। + २ ० ६-१० ।। . हं० १.१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org