________________
श्रीदशवैकालिकसूत्रम्
३७७ उप्पन्नं नाइहीलिजा, अप्पं वा बहु फासुयं । मुहालद्धं मुहाजीवी, भुंजिजा दोसवज्जियं ।।१९।।
उत्पन्नम्-ईदृशमेव विधिना प्राप्तम् । नातिहीलयेत् । अल्पम् स्तोकम् । बहु वा- असारप्रायम् । किं विशिष्टं, प्रासुकम् । मुधालब्धम्-मायया आलापाद्यैपनावर्जया प्राप्तम् । मुधाजीवी-जात्याद्यनाजीवकः । भुञ्जीत दोषवर्जितम्-संयोजनादिदोषरहितम्।।
एतद्दुरापमिति दर्शयन्नाहदुल्लहा हु मुहादाई, मुहाजीवी वि दुल्लहा । मुहादायी मुहाजीवी, दोवि गच्छंति सोगई ति बेमि ।।१०।।
स्वजना अमी, कुलगुखोऽमी, अस्मत्कुटुम्बेऽतीव ममत्वम्, अस्मान्प्रति बहुतमं वात्सल्यं कुर्वन्ति । इत्यादिकारणैरुपरोधं विना चारित्रिणोऽमी, महासत्त्वा, निर्ममा, इहलोकनिरपेक्षाः, मोक्षमार्गकदृष्टयः, सत्पात्रभूता इति बुद्ध्या भक्तपानवस्त्रपात्रादिभिस्तेषामुपकुर्वते । इत्येते मुधादायिनो दुर्लभाः । मुधाजीविनः-ज्योतिष-निमित्त-मन्त्रतन्त्रसस्नेहालापा-सनाद्यर्पणासद्भूतस्वाजन्यकरण-ममत्वदर्शनादि-वात्सल्यैभक्तपान-वस्त्राद्यर्थं निरीहतया गृहस्थानावर्जयन्ति ते दुर्लभाः मुधादायिनो मुधाजीविनश्च द्वयेऽपि गच्छन्ति द्वावपि गच्छतः । सुगतिम्-सिद्धिगतिमिति, कदाचिदनन्तरमेव कश्चिद् देवलोकंसुमानुषत्वप्रत्यागमनपरम्परया । इति-समाप्तौ ब्रवीमिति पूर्ववत् । अत्र मुधादायकत्वे धर्म प्रपित्सुभद्रकः श्रेष्ठी, मुधाजीवित्वे च साधुद्वयं दृष्टान्तः । तत्कथा चैवम्
॥मुधादायि-मुधाजीविनः कथा ।। लक्ष्मीपुरं नाम पुरं समस्ति, प्रशस्तवास्तूंनतिमत् समस्तम् । ' सहाप्सरोभिः सुमनःसमूहै:, स्वर्वद् बभुर्बाह्यभुवोऽपि यस्य ।।१।। उपजातिः सुदर्शनेन प्रतिभाति निघ्नन्, पद्माधिनाथो नरकाद्यरातीन् । सन्नन्दको यत्र जनोऽच्युतश्री:, चित्रं न वैकुंठतया प्रसिद्धः ।।२।। उपजातिः यत्पौरलक्ष्मीक्षणकाङ्क्षयेव, दिनावसानेऽपि वियोगभीरुः ।
तस्थौ विभज्यात्मतनुं दिनेशः, प्रदीपमालामिषतोऽनुगेहम् ।।३।। उपजातिः • समस्तव० २, समस्तवा० ६-१० ।। , स्तत्व० ५, स्तन्नभि० ६-९ ।। १. पक्षे जलसरोभिः ।। . हेरध्यासिता० १, ०हैराध्यासिता २.६-१० ।। सुपर्वनन्दी १.३-५, १० टिप्पण० ।। द्र० १.३-५ १० टिप्पण० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org