________________
श्रीदशवैकालिकसूत्रम्
३७५ ऋजुप्रज्ञः-अकुटिलमतिः । अनुद्विग्नः-क्षुदादिजयात् प्रसन्नः । अव्याक्षिप्तेन चेतसा-अन्यत्र अगतचित्तेन । शेषं स्पष्टम् ।
तदनु चन सम्ममालोइयं हुजा, पुब्बिं पच्छा व जं कडं । पुणो पडिक्कमे तस्स, वोसट्ठो चिंतए इमं ।।९१॥
न सम्यगालोचितं भवेत् । सूक्ष्ममज्ञानाद् विस्मरणाद्वा पूर्व पश्चाद्वा यत्कृतं दात्र्या पुरःपश्चात्कर्म वेत्यर्थः । पुन:-आलोचितान्तरम् । प्रतिक्रामेत् । तस्य-सूक्ष्मातिचारस्य। “इच्छामि पडिक्कमिउं गोयरचरियाए” इत्यादि “तस्स मिच्छामि दुक्कडम्" इत्यन्तं सूत्रं पठित्वा । व्युत्सृष्टः-कायोत्सर्गस्थः । चिन्तयेदिदम् ।।
किं तत्अहो जिणेहिं असावजा, वित्ती साहूण देसिया । मुक्खसाहणहेउस्स, साहूदेहस्स धारणा ।।१२।।
अहो जिनैरसावद्या वृत्तिः साधूनां देशिता, मोक्षसाधनहेतोः साधुदेहस्य धारणेति। प्राकृतत्वाल्लुप्तचतुर्थीकं धारणायै इत्यर्थः ।
ततश्चनमुक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्जायं पट्ठवित्ताणं, वीसमिज खणं मुणी ॥१३॥
नमस्कारेण-नमो अरिहंताणमित्यनेन । पारयित्वा । कृत्वा जिनसंस्तवम-चतुर्विंशतिस्तवं भणित्वेत्यर्थः । स्वाध्यायं प्रस्थाप्य विश्राम्ये त क्षणं मुनिः ।।
- वीसमंतो इमं चिंते, हियमटुं लाभमट्ठिओ । ... जइ मे अणुग्गहं कुजा, साहू हुजामि तारिओ ।।१४।। .. विश्राम्यन्निदं चिन्तयेद् । हितमर्थम् उत्तरार्द्धन वक्ष्यमाणम् । लाभार्थिकःकर्मनिर्जरार्थी । यदि मे अनुग्रहं कुर्युः साधवो मदीयानीतप्रासुकपिण्डादानेन, ततोऽ हं स्यां तारितो भवाब्धेः ।। * पुरः ६-१०.१२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org