________________
३७२ . श्रीतिलकाचार्यविरचितटीकायुतम्
तहेवुद्यावयं पाणं, अदुवा वारधोयणं । संसेइमं चाउलोदगं, अहुणाधोयं विवजए ।।७५।।
यथा प्रागशनमुञ्चावचमुक्तं तथैव पानम् । उनम्-वर्णाद्युपेतं, द्राक्षापानादि । अवचम्-वर्णादिहीनं, आरनालादि । अथवा वारकधावनम्-गुडघटक्षालनं, धान्यस्थालीक्षालनाद्यपि । संस्वेदजम्-पिष्टस्वेदसङ्गतोदकादि । तन्दुलोदकम्आष्टिकरकमुच्यते । तदधुना धौतम्-अपरिणतम् । विवर्जयेत् । . .
अत्रैव विधिमाहजं जाणिज चिराधोयं, मईए दरिसणेण वा । पडिपुच्छिया व सुचा वा, जं च निस्संकियं भवे ।।७६।।
यत्-तन्दुलोदकादि । जानीयात् चिरधोतं मत्यादर्शनेन वा कलुष्याधोनिविष्टतया कियती वेला धौतस्यास्येति प्रतिपृच्छय वा गृहस्थम् । सुश्शा वा वाशब्दश्चार्थे, महती वेलेति तत्प्रतिवचः श्रुत्वा च । यदेव निःशङ्गिकतं भवेत् तद् गृह्णीयादित्यर्थः ।।
उष्णोदकादि विधिमाहअज्जीवं परिणयं नशा, पडिगाहिज्ज संजए । अह संकियं भविजा, आसाइत्ता ण रोवए ।।७७।।
अजीवं परिणतम्-त्रिदण्डपरिर्तनदिरूपम् । गृहस्थप्रश्नेन ज्ञात्वा प्रतिगृह्णीयात् संयतः । तदभावे चतुर्थरसमपि देहोपकारकं मत्यादिना ज्ञात्वा । अथ शङ्कितं भवते। कुथिताम्लत्वादिना तत आस्वाद्य रोचयेत्-निश्चयं कुर्यात् ।। तचैवम्
थोवमासायणट्ठाए, हत्थगंमि दलाहि मे।। मा मे अझंबिलं पूइं, नालं तन्हविणित्तए ।।७८।।
स्तोकमास्वादनाय हस्ते देहि मे । मा मम अत्यम्लं कुथितं वा, नालं तृष्णानिवर्त्तनाय । ततः किमस्योपादानेन? । प्रायोग्यं चेद् ग्राह्यम् ।।
तं च अवंबिलं पूइ, नालं तण्हविणित्तए ।
दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥७९।। * इयं गाथा १-७.९-१२ प्रतिषु नास्ति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org