________________
श्रीदशवैकालिकसूत्रम्
३७१
1
कन्दम्-सूरणादेः । मूलम्-मूलकादेः । प्रलम्बम्-तालफलादिः । आमं छिन्नं सन्निरम्-समयभाषया पत्रशाकम् । तुम्बागम् - तुम्बकमेव । शृङ्गबेरं चआमकं परिवर्जयेत् ।।
आर्द्रकम् ।
तहेव सत्तुचुन्नाइं, कोलचुन्नाइं आयणे ।
सक्कल फाणियं पूयं, अन्नं वा वि तहाविहं । । ७१ ।। विक्कायमाणं पसढं, रएण परिकासियं
दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं । । ७२ ।। युग्मम्
तथैव शक्तचूर्णान्, शक्तून् कोलचूर्णान्- बदरचूर्णान् । आपणे-हट्टे । शष्कुलीम्तिलपर्पटिकाम् । फाणितम्-द्रवगुडम् । पूपम् - कणिक्खादिमयम् । अन्यद् वा-तथाविधं मोदकादिकं विक्रीयमाणम्- आपणे प्रसढम् - प्रसोढं विक्रयाभावात् चिरस्थापितं, प्राकृतत्वादोकारस्य अकारः । अत एव रजसा परिस्पृष्टम् - व्याप्तम् । तद्दद्दतीं प्रत्याचक्षीत न मे कल्पते तादृशमिति गाथाद्वयार्थः ।।
किञ्च
बहुअट्ठियं पुग्गलं, अणमिसं वा बहुकंटयं ।
अत्थियं तिंडुयं बिल्लं, उच्छखंडं च सिंबलिं ।। ७३ ।
इह वनस्पत्यधिकारः । बहुस्थिकम् - बहुबीजम् । पुद्गलम् पुद्गलाख्यवृक्षफलम् । अनिमिषं वा-अनिमिषनाम्नो वृक्षस्य फलम् । बहुकण्टकम् । अत्थियम्अस्तिकवृक्षफलम् । तिण्डुकम्–टिम्बरुकीफलम् । बिल्लम् इक्षुखण्डं च प्रतीतम् । सिंबलिम्-शाल्मली वल्लादिफलिकां वा ।।
अत्र दोषमाह -
अप्पे सिया भोयणज्जाए, बहु उज्झियधम्मिए । दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं । । ७४ ॥ अल्पं स्याद् भोजनजातं बहूज्झनधर्मकमेतत् । शेषं स्पष्टम् ।। उक्तोऽशनविधिः । अधुना पानविधिमाह -
1
व्य० १.३-५ ।। ति० २.३.५ ।। - तिड्डु १.३-५.१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org