SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ३६५ वा उदूखलखण्डितः । असंसृष्टेन- व्यञ्जनादिनालिप्तेन संसृष्टेन- लिप्तेन । बोधव्यो हस्त इति विधिमूर्ध्वं स्वयमेव वक्ष्यति ।। असंसद्रुण हत्थेण, दबीए भायणेण वा दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ।।३५।। असंसृष्टेन-अन्नाद्यलिप्तेन । हस्तेन, दा भाजनेन च दीयमानं न इच्छेत् । यत्र हस्तादेः क्षालनादिरूपं पश्चात् कर्म भवति । निर्लेपं तु मण्डकादि गृह्णीयात् ।। संसटेणं तु हत्थेणं, दव्वीए भायणेण वा । दिजमाणं पडिछिज्जा, जं तत्थे सणियं भवे ॥३६॥ संसृष्टेन-अन्नादिलिप्तेन । हस्तादिना दीयमानं प्रतीच्छेत् । यत्तत्रैषणीयम्अन्यदोषरहितं भवेत् ।। दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिजमाणं न इच्छिज्जा, छंद से पडिलेहए ॥३७॥ स्पष्टः । नवरम् । छन्दम्- अभिप्रायम् । से-तस्य द्वितीयस्य प्रत्युपेक्षेत । इष्टं चेत् तस्य दीयमानं तदा गृह्णीयात् । न चेनैव । दोण्हं तु भुंजमाणाणं, दोवि तत्थ निमंतए । दिजमाणं पडिछिज्जा, जं तत्थेसणियं भवे ॥३८॥ स्पष्टः । विधिविशेषमाहगुब्बिणीए उवण्णत्थं, विविहं पाणभोयणं । भुंजमाणं विवज्जित्ता, भुत्तसेसं पडिच्छए ।॥३९॥ गुर्विण्या उपन्यस्तम्-उपकल्पितम् । विविधम्- द्राक्षापानखण्डखाद्यादि पानभोजनम् । तया भुज्यमानं विवर्जयेत् । मा भूत् तस्या अल्पत्वेनाभिलाषानिवृत्तो गर्भपातादिदोषः । भुक्तशेषम्-भुक्तोद्धरितं प्रतीच्छेत् । किं च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy