________________
स्मृतश्रुतार्थरूपात्म-रक्षामन्त्रः सचेतनः ।
न लोल्यताख्यशाकिन्या, शक्यश्छलयितुं यतः ।। ८ ।। गन्धसम्बन्धतोऽभ्येयु-र्घृतबिन्दौ च कीटिकाः । सौरभ्यारम्भसंरम्भाद्, भ्रमरा इव जातिषु ।।९।। पतितानां कीटिकाना - मुपादाने गृहोलिका । चटकानामुपागत्य, श्येनवत् समुपस्थिता ।।१०।। ओतुर्जिग्रसिषुस्तां च समेत्य निभृतः स्थितः । बद्धध्यानो बक इव, शफरीग्रहणासयः ।। ११ । । एकतस्तद्गृहश्वागात्, तत्र तस्य जिघांसया । निहन्तुं वृकवच्छागान्, शसकानिव चित्रकः ।।१२।। अन्यतोऽभ्यागमत् तंत्र, प्रातिवेश्मिककुक्कुरः । ग्रहीतुं सोऽपि मार्जारं, तमेव कृतमानसः ।।१३।। अथो मिथोऽभवद्, युद्धं तयोः कुक्कुरयोर्द्वयोः । एकद्रव्याभिलाषित्वं यतो वैरस्य कारणम् ।।१४।। गृहेशोत्रासितेश्वाने, द्वितीये प्रातिवेश्मिकः ।
श्रीदशवैकालिकसूत्रम्
,,
संनह्यं योद्धुमभ्यागात्, तद्गृहस्वामिना सह ।। १५ ।। ततस्तयोर्द्वयोर्जज्ञे, शस्त्राशस्त्रिरणो महान् 1 पक्षद्वयेऽपि चान्योन्यं, तत्राजनि जनक्षयः ।।१६।। अभविष्यन्मुनिः तस्य, पापारम्भस्य कारणम् अगृहीष्यद् घृतं यद्य-नात्ते दोषलवोऽपि न ।।१७।। `ग्राह्यं न तस्मात् परिशाटिदोष - दुष्टं मुनीन्द्रैरशनादि किञ्चित् । विशेषतस्तैलघृतादिलेप- द्रव्यं पुनस्तत्परिवर्जनीयम् ।। १८ ।। उपजातिः संमदमाणी पाणाणि, बियाणि हरियाणि य । असंजमकरिं नचा, तारिसिं परिवज्जए ।। २९
Jain Education International
स्पष्टः । नवरम् । असंजमकरिम् - साधुनिमित्तमसंयमकरणशीलाम् ।।
एकताना-५ ।। गृहश्वानेन पर्यस्ते २.६-११ अयं मूलपाठः १० टिप्पण्यामपि ।। स्यात्, कारणं मुनिरप्यसौ । तघृतं यदि गृह्णीतानात्ते दोषलवोऽपि न २.६- ११ ।।
For Personal & Private Use Only
३६३
पापारम्भस्य तस्य
व्यंति १.३-५ ।।
www.jainelibrary.org