________________
३६२ श्रीतिलकाचार्यविरचितटीकायुतम्
तत्थ से चिट्ठमाणस्स, आहरे पाणभोयणं । अकप्पियं न इच्छिज्जा, पडिगाहिज कप्पियं ॥२७॥ तत्रोचितभूमौ तस्य तिष्ठतः दात्री आहरेत्-आनयेत् । पानभोजनयोग्यवस्तु पानभोगजनम् । उत्तरार्धं स्पष्टम् ।
अत्राशयोत्तरम्-अकल्प्यनिषेधे कल्प्यग्रहणं सिद्धमेव, परं द्रव्यतः शोभनमशोभनं वा कल्प्यं ग्राह्यमिति दर्शनार्थं तदप्युक्तम्
आदरंती सिया तत्थ, परिसाडिज्ज भोयणं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥२८॥
आहरंती-आनयन्ती । स्यात् कदाचिद् दात्री परिशाटयेत् सिक्थादि ददती प्रत्याचक्षीत् न मे कल्पते तादृशम् । अत्र घृतबिन्दुष्टान्तः । स चायम्
॥घृतबिन्दुकथा । नाम्ना वसुन्धरेत्यस्ति, पुरी यद्व्यवहारिणाम् । ' वसुभिः सर्वतो न्यस्तै-यथार्थाख्या बभूव या ।।१।। तत्रैकगृहिणो गेहे, हेयोपादेयतत्त्ववित् । क्षुधार्तिमुपसंहां, विहर्तुं यातवान् मुनिः ।।२।। धारिण्या हर्षधारिण्या, गृहिण्या तद्गृहेशितुः । बहुप्रकारैराहारैः, सँ यतिः प्रतिलाभितः ।।३।। आनयन्त्या मुनेर्दातुं, कांस्यपात्री हविर्भूताम् । कथञ्चन प्रमादेन, पात्रीतो घृतबिन्दुकः ।।४।। गृहाङ्गणे पपातकः, पातकैकनिबन्धनम् ।। गृह्णाति स्म घृतं तन्न, मुनिश्छर्दितदोषतः ।।५।। युग्मम् गृहलोकेन सर्वेणा-प्यत्यन्तादरपूर्वकम् । क्रियासमभिहारेण, भण्यमानोऽप्यसौ मुनिः ।।६।। न स्वकर्णे सकर्णः स, वचस्तेषामधारयत् ।
ववले घृतमादातुं, न हि निस्पृहताधनः ।।७।। * संयतः ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org