________________
श्रीदशवकालिकसूत्रम्
३६१ असंसत्तं पलोइज्जा, नाइदूरावलोयए । उप्फुल्लं न विनिजाए, नियट्टिज अयंपिरो ।।२३।।
असंसक्तं प्रलोकयेत्-न योषिद्दष्टेईष्टिं मीलयेदित्यर्थः । नातिदूरम्दायकस्यैवागमनमार्गदेशं प्रलोकयेत् । परतश्चौरादिशङ्का स्यात् । उत्फुल्लम्-विकसितनेत्रं गृहोपस्करमपि न विनिध्यायेत् । अदृष्टकल्याण इति लाघवोत्पत्तेः । निवर्तेत अलब्धेऽपि अजल्पन दीनं दातृदोषं वा ।
तथा
अइभूमिं न गच्छिज्जा, गोयरग्गगओ मुणी ।
कुलस्स भूमिं जाणित्ता, मियं भूमिं परिक्कमे ।।२४।। ___अतिभूमिम्-यत्रान्ये भिक्षाचरा न यान्ति । तां गृहस्थैरननुज्ञातां न गच्छेत् । गोचराग्रगतो मुनिः । कुलस्य-श्रद्धालोरश्रद्धालोर्वा । भूमि-मर्यादां ज्ञात्वा । मितां भूमिम्-तदनुज्ञातां परिक्रामेत् ।
विशेषमाह: तत्थेव पडिलेहिज्जा, भूमिभागं वियक्खणो । सिणाणस्स य वचस्स, संलोगं परिवजए ।।२५।।
तत्रैव-तस्यामेव भूमौ मितायां प्रत्युपेक्षेत । भूमिभागम्-उचितं भूप्रदेशम् । विचक्षणो-गीतार्थः । स्नानस्य वर्चसश्च संलोकं परिवर्जयेत् । तत्राप्रावृतस्त्रीदर्शनेन रागादिभावात् ।
तथा- . . दगमट्टियआयाणे, बीयाणि हरियाणि य । परिवजितो चिट्ठिज्जा, सब्ििदयसमाहिए ।।६।।
उदकमृत्तिकादानम्-आदीयतेऽनेन आदानो मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः । शेयं स्पष्टम् ।
*. स्का० ८-१०, ०रिकर० ९.१२ ।। १. स्थंडीलनी जग्या जोवामां आवे १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org