________________
३५८ . श्रीतिलकाचार्यविरचितटीकायुतम्।
अनायतने-अस्थाने, वेश्यासामन्तादौ । चरतः संसर्गी-नदादेराकृति-गणत्वादीप्रत्यये तया । अभीक्ष्णं भवेद् व्रतानां पीडा ।
कथं वेश्यागतभावस्य चतुर्थव्रतं पीड्यते ?
अनुपयोगेनैषणाया अरक्षणेऽहिंसा, केनाप्यपचित्तताप्रश्नेऽपलपनात् सत्यव्रतम्, अननुज्ञातवेश्यावलोकनाददत्तादानं, तन्ममत्वकरणे परिग्रहव्रतम्, एवं सर्वव्रतपीडा, द्रव्यश्रामण्येऽपि संशयः कदाचिदुनिःक्रमणात् ।।
एतन्निगमयन्नाहतम्हा एवं वियाणित्ता, दोसं दुग्गइवठ्ठणं । वजए वेससामंतं, मुणी एगंतमस्सिए ।।११।। सुगमः । नवरम् एगन्तमस्सिए-एकान्तं मोक्षमाश्रितः ।। अत्रैव विधिविशेषमाहसाणं सूइयं गाविं, दित्तं गोणं हयं गयं । संडिब्भं कलहं जुद्धं, दूरओ परिवजए ॥१२॥
श्वानम् । सूतिकाम्-नवप्रसूतां गवीम् । दृप्तं गां, हयं, गजम् । सडिम्भम्बालक्रीडास्थानम् । कलहम्-प्रतीतम् । युद्धम्-शस्त्रादिभिः । एतानि दूरतो वर्जयेत् । आत्म-संयमविराधनासम्भवात् । युद्धं हि पश्यतां कदाचित् प्रहारलगनादात्मविराधना, तत्प्रशंसाया संयमविराधना । श्वानादिभ्यश्च संयमात्मविराधना स्वयमभ्यूह्या ।।
अत्रैव विशेषमाहअणुनए नावणए, अप्पहिढे अणाउले । इंदियाणि जहाभागं, दमइन्ना मुणी चरे ॥१३।।
अनुन्नतः-द्रव्यतो भावतश्च, द्रव्यतो नोर्ध्वमुखः, भावतो न जात्याद्यभिमानी । नावनतः-द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकायः, भावानवनतोऽलाभादिनादीनः। अप्रहृष्टः-लाभादौ अहर्षः । अनाकुल:-क्रोधादिरहितः । इन्द्रियाणि यथाभावम्-यथाविषयम् । दमयित्वा-इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिश्चरेत् । विपर्यये दोषः-द्रव्योन्नतो लोकहास्यः, भावोन्नतो जात्याद्यावेशादीर्यां न रक्षति । द्रव्यावनतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org