________________
३५७
श्रीदशवैकालिकसूत्रम् समे मार्गे, सप्तमीस्थाने तृतीया । असति च समे मार्गे तेनैवावपातादिना विराधनाद्वयं परिहरन् यतमेव-यतनयैव पराक्रमेत् ।।
अत्रैव विशेषतः पृथ्वीकाययतनामाहइंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहि, संजओ तं नअक्कमे ।।७।।
अङ्गाराणामिमम्-आङ्गारम् । एवं क्षारं, राशिम् । तुषराशिम् । गोमयम्गोमयराशि, राशिशब्दोऽत्रापि सम्बध्यते । सरजस्काभ्याम्-सचित्तपृथ्वीकायरजोगुण्डिताभ्यां पादाभ्यां संयतस्तं राशिं नाक्रामेत् । मा भूत् पृथ्वीरजोविराधनेति ।
अत्रैवाप्काययतनामाहन चरिज वासे वासन्ते, महियाए वि पडंतिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ।।८।।
न चेरद् वर्षे वर्षति-बहिर्गतस्य वर्षणे तु प्रच्छन्ने तिष्ठेत् । महिकायाम्धूमर्याम्। महावाते वा वाति सति । तिर्यक् सम्पतन्तीति तिर्यक्सम्पातास्त एव सम्पातिमाः पतङ्गादयः, तेषु वा सत्सु न चरेत् ।।
उक्ता प्रथमव्रतयतना साम्प्रतं चतुर्थव्रतयतनोच्यन्तेन चरिज वेससामंते, बंभचेरवसाणए । बंभयारिस्स दंतस्स, हुजा तत्थ विसुत्तिया ।।९।।
न चेरद् वेश्यासामन्ते-गणिकागृहसमीपे । ब्रह्मचर्यं अवसानयतीति इति इनि पुणि वष्टि भागुरिरल्लोपे ब्रह्मचर्यवसानकं तास्मिन् ब्रह्मचर्यवसानके-ब्रह्मचर्यपर्यन्तकारके। तत्र गतस्य ब्रह्मचारिणो दान्तस्य भवेद् विश्रोतसिका-वेश्यादर्शनस्मरणापध्यानस्वरूपकचवरावस्थानात् ज्ञानश्रद्धाजलापगमात् । विरूपं श्रोत इव प्रणालमिव श्रान्तोऽन्तकरणं तदेव निरुक्त्या विश्रोतसिका सपङ्कप्रणालिकाः सकल्मषचित्तता इत्यर्थः । . अत्रैव विशेषमाह
अणायणे चरंतस्स, संसग्गीइ अभिक्खणं । - हुज वयाणं पीडा, सामनंमि य संसओ ।।१०॥ . १. वष्टि भागुरिरल्लोप-मवाप्योरुपसर्गयोः । आपं चैव हलन्तानां, यथा वाचा निशा दिशा ।। (सिद्धान्तकौमुद्यामव्ययप्रकरणे)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org