________________
३५६ . श्रीतिलकाचार्यविरचितटीकायुतम्
श्रमणोऽपि तथा दात्री-रूपादौ न मनः क्षिपेत् । कुर्यात् पिण्डेषणामेव, भिक्षाहेतोहं गतः ।।५।। यथा चरेत् तथाहपुरओ जुगमायाए, पेहमाणो महिं चरे । वजितो बीयहरियाई, पाणे य दगमट्टियं ॥३॥
पुरतो युगमात्रया कोऽर्थः- युगप्रमाणाम् । महीं प्रेक्ष्यमाणश्चरेत् । वर्जयन् बीजहरितानि, प्राणान्-द्वीन्द्रियादीन् । दगमृत्तिकाम्-पृथ्वीकायाप्कायौ । चशब्दात्तेजोवायू च ।।
उक्तः संयमविराधनापरिहारः । अधुनात्मसंयमविराधनापरिहारमाह
ओवायं विसमं खाणु, विजलं परिवजए । संकमेण न गच्छिज्जा, विजमाणे परक्कमे ॥४॥
अवपातम्-गर्तादिरूपम् । विषमम्-निम्नोन्नतम् । स्थाणुम्-कीलकम् । विजलम्-विगतजलं कर्दमं परिवर्जयेत् । तथा सङ्क्रमेण-काष्ठपाषाणरचितेन पट्यारूपेण जलगर्तादौ तेन न गच्छेत् । संयमात्मविराधनासम्भवात् । विद्यमाने पराक्रमे-अन्यस्मिन् मार्गे, तदभावे सङ्क्रमेणापि कार्यवशाद् यतनया यायात् ।।
अवपातादौ दोषमाहपवडते व से तत्थ, पक्खलंते व संजए । हिंसेज पाणभूयाई, तसे अदुव थावरे ।।५।।
प्रयतन् वा स तत्र-गर्तादौ । प्रस्खलन् वा संयतः हिंस्यात् प्राणभूतान् त्रसानथवा स्थावरान् ।
यतश्चैवम्तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए । सइअनेण मग्गेण, जयमेव परक्कमे ।।६।। तस्मात् तेन-अवपातादिना । न गच्छेत् । संयतः -सुसमाहितः । सत्यन्यस्मिन्
*ष १ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org