________________
श्रीदशवैकालिकसूत्रम् ____ ३५५ · ॥ पञ्चमं पिण्डैषणाध्ययनम् ।।
॥ पिण्डैषणाध्ययनेप्रथमोद्देशकः ।। अनन्तराध्ययने साध्वाचारः कथितः, स च पिण्डादिशुद्ध्या शुद्धो भवति इत्यनेन सम्बन्धेनायातं “पिण्डैषणाध्ययनम्" अधुना व्याख्यायते ।
तच्चेदमसंपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ । इमेण कमजोगेण, भत्तपाणं गवेसए ॥१॥
सम्प्राप्ते भिक्षाकाले । असम्भ्रान्तः-अनाकुलः । अमूर्छितः-अगृद्धः । अनेनवक्ष्यमाणेन । क्रमयोगेन-परिपाटीव्यापारेण । भक्तपानं गवेषयेत् । . क्व गवेषयेदित्याह
से गामे वा नगरे वा, गोयरग्गगओ मुणी । चरे मंदमणुविग्गो, अव्वक्खित्तेण चेयसा ॥२॥
सोऽसम्भ्रान्तोऽमूर्छितो मुनिः ग्रामे वा नगरे वा । गोचराग्रगतः-गौरिव चरणं गोचरः, उच्चनीचगृहेषु भिक्षाटनं, तस्याग्रे प्रथमं गतो गन्तुमारब्धः । चरेन्मन्दम्शनैरद्रुतम् । अनुद्विग्न:-अलाभानिष्टलाभादौ । अव्याक्षिप्तेन-शब्दादिष्वागतेन एषणोपयुक्तेन चेतसा । अत्र च वत्सकवणिग्जायादृष्टान्त:
॥वत्सकवणिग्जायाकथा ।। एकस्य वणिजो जाया, रूपातिशयशालिनी । पौलोमीव भुवं प्राप्ता, जगलोचनमोहिनी ।।१।। वसाना दिव्यवासांसि, दिव्याभरणभारिणी । अनन्यसमसौभाग्या, भाग्यानां परमावधिः ।।२।। भोजयित्वा समस्तं स्वं, कुटुम्बं भोजनक्षणे । धान्यपिण्डं करे कृत्वा, गच्छन्ति वत्सवत्सला ।।३।। वत्सकः सम्भ्रमात् तस्या, न रूपं भूषणानि वा ।।
वीक्षते किन्तु धान्यस्य, पिण्डिकामेव केवलम् ।।४।। १. इन्द्राणीव १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org