SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३५४ श्रीतिलकाचार्यविरचितटीकायुतम् सुहसायगस्य समणस्स, सयाउलस्स निगामसाइस्स । उच्छोलणा पहोइस्स, दुलहा सोगइ तारिसगस्स ।।२६॥ . सुखास्वादकस्य-प्राप्तशब्दरसादि रसभोक्तुः । श्रमणस्य-द्रव्यसाधोः । साताकुलस्यभाविसुखार्थं व्याक्षिप्तचित्तस्य । निकामशायिनः-सूत्रार्थवाचनावेलायामपि शयानस्य । उच्छोलनाप्रधाविनः-उच्छोलनया उदकायतनया प्रकर्षेण धावति पादादिशुद्धिं करोति यः स तथा तस्य । दुर्लभा सुगति:-सिद्धिपर्यवसाना । तादृशकस्य-भगवदाज्ञालोपिनः । अथ यस्य धर्मफलं सुलभं, तमाहतवोगुणपहाणस्स, उज्जुमइ खंतिसंजमरयस्स । .. परीसहे जिणंतस्स, सुलहा सोगइ तारिसगस्स ।।२७।। तपोगुणप्रधानस्य रूजुमतेः-सरलाशयस्य । शान्तिसंयमरतस्यक्षमाप्रधानसंयमासेविनः । परीषहान्-क्षुदादीन् । जयतः सुलभा । सुगतिः-सिद्धिरूपा। तादृशकस्य-भगवदाज्ञाकारिणः । ये चादौ सुखशीलाः पश्चात् कुतोऽपि वैराग्याद् व्रतोद्यता भवन्ति तेषां किमित्याहपच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई । जेसिं पिओ तवो संजमो य, खंती य बंभचेरं च ।।२८॥ पश्चादपि ते प्रयाताः-मोक्षं प्रति प्रयातुमारब्धः, आर्द्रकुमार-नन्दिषेणादिवत् । क्षिप्रं गच्छन्तीत्यादि सुगमम् ।। षड्जीवनिकायिकोपसंहारमाहइछेयं छज्जीवणियं, सम्मदिट्ठी सया जए । दुलहं लभित्तु सामनं, कम्मुणा न विराहिज्जासि त्ति बेमि ।।२९।। इत्येतां षड्जीवनिकायिकां सम्यग्दृष्टिजीवः । सदा यतः-यत्नपरः । दुर्लभं लब्ध्वा श्रामण्यम् कर्मणा-मनोवाक्कायक्रियया प्रमादेन । न विराधयेत्-न खण्डयेत् । अप्रमत्तस्तु कथञ्चिद् विराधनायामप्यविराधक एव । एतेन जले जीवाः स्थले जीवाः, आकाशे जीवमालिनी । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ।।१।। [ इति प्रत्युक्तं ब्रवीमीति पूर्ववत् ।। * ए० १.३.४ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy