________________
श्रीदशवकालिकसूत्रम् । राना रक्त इति ।
३५९ बक इति सम्भाव्यते, भावावनतः तुच्छसत्त्व इति । प्रहृष्टो योषिद्दर्शनाद् रक्त इति । आकुलो लाभार्थी । अदान्तः प्रव्रज्यानर्ह इति ।।
किं चदवदवस्स न गच्छिज्जा, भासमाणो य गोयरे । हसंतो नाभिगच्छेजा, कुलं उच्चावयं सया ।।१४।। स्पष्टम् । नवरम् दवदवस्स-द्रुतं त्वरितमित्यर्थः । दोषश्च उभयविराधना । पुनरत्रैव विधिमाहआलोयं थिग्गलं दारं, संधिं दगभवणाणि य । चरंतो न विनिज्झाए, संकट्ठाणं विवजए ।।१५।।
आलोकम्-गवाक्षादि । थिग्गलम्-चितद्वारादि । संधिम्-चितखात्रादि । उदकभुवनानि च चरन् भिक्षार्थं न विनिध्यायेत्-न विशेषेण पश्येत् । शङ्कास्थानमेतदवलोकादि । अतो विवर्जयेत् । तत्तद्दर्शिनि नष्टवस्तुनः अनेन गृहीतमिति शङ्का स्यात् ।
अपि चरनो गिहिवईणं च, रहसारक्खियाण य । . संकिलेसकरं ठाणं, दूरओ परिवजए ।।१६।।
राज्ञो गृहपतीनाम्-श्रेष्ठयादीनाम् रहःस्थानम्, आरक्षकाणां च सक्लेशकरं स्थानं दूरतः परिवर्जयेत् । रहःस्थानावलोकने हि अस्मदालोचादिजिज्ञासवो मी इति तेषां सङ्क्लेशः स्यात्, साधूनां वा तैनिःसारणादिसक्लेशः क्रियेत ।। . किं च
पडिकुटुकुलं न पविसे, मामगं परिजए । अचियत्तकुलं न पविसे, चियत्तं पविसे कुलं ।।१७।।
प्रतिकुष्टम्-लोकनिषिद्धं मलिनादिकुलम् न प्रविशेत-शासनलघुत्वप्रसङ्गात् । मामकम्-यो वक्ति मा मे गृहं कश्चिदागच्छतु । तद्गृहं वर्जयेत् । अचियत्तकुलम्*ण ९. १०.१२ ।। । च्छि० ६-१२ ।। 0 व्ह० ६.७.९-१२ ।। मीति ४.१०.११, ०स्मीति ५ ०मीति इति ६-९.१२ ।। र निर्वासनादि० १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org