________________
३४६ . श्रीतिलकाचार्यविरचितटीकायुतम् -सम्यग् यतः-संयतः सप्तदशविधसंयमोपेतः, विविधे द्वादशप्रकारे तपसि रतः-विरतः, प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन, प्रत्याख्यातं हेत्वभावाद् वृद्ध्यभावेन पापकर्म ज्ञानावरणीयादि येन स । तथा दिवा वा रात्रौ वा एको वा-कारणात् । परिषङ्गतः शेषकालम् । सुप्तो वा जाग्रद् वा इदं च वक्ष्यमाणं न कुर्यात् ।
से पुढविं वा, भित्तिं वा, सिलं वा, लेखें वा, ससरक्खं वा कार्य, ससरक्खं वा वत्थं, हत्थेण वा, पाएण वा, कटेण वा, कलिंचेण वा, अंगुलियाए वा, सिलागाए वा, सिलागाहत्थेण वा, नालिहिज्जा, न विलिहिज्जा, न घट्टिजा, न भिंदिजा, अन्नं नालिहाविजा, न विलिहाविजा, न घट्टाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा, विलिहंतं वा, घटुंतं वा, भिंदतं वा, न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं,न करेमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि, तस्स भंते पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।।१।। (सू० १०)
पृथ्वी-लोष्टादिरहिता । भित्तिः-नदीतटी । शिला-विशाल: पाषाणः । लोष्टःमृन्मयो दृषन्मयो वा । सह रजसा-असञ्चरभूमिरेणुना वर्तत इति सरजस्कं कायं, सरजस्कं वा वस्त्रम्-सजातीयत्वात् पात्राद्यापि । हस्तेन वा, पादेन वा, काष्ठेन वा, कलिंचेन वा-क्षुद्रकाष्ठेन । अङ्गुल्या वा शिलाकया वा-अयोमय्या । शिलाकाहस्तेन वा-शिलाकाकलापेन । न आ-ईषद् लिखेत्-रेखां कुर्यात् । न विशेषेण-गाढं लिखेत्। न घट्टयेत्-न चलयेत् । न भिन्द्यात्-विदारयेत् स्वयम् । नान्येनालिखनादि कारयेत्। अन्यमालिखनादि कुर्वन्तं न समणुजाणामीत्यादि प्राग्वत् ।
तथा
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुत्ते वा जागरमाणे वा ।
प्राग्वत् ।
* गृ० १-१०.१२ ।। . हिं० १-४ ।। 0 हिं० १-३.७ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org