________________
श्रीदशवैकालिकसूत्रम्
जहमलिणाहसु दोसा, सुद्धासु नेव हि पि । । २ । । [ एतयोर्लेशोद्देशेनार्थः कथ्यते पठितायां शास्त्रपरिज्ञायामाचाराङ्गप्रथमाध्ययनरूपायां, दशवैकालिकषड्जीवनिकायिकायां वा "सुयं मे आउसं तेणं" इत्यादि "इवेयं छज्जीवणियं सम्मदिट्ठी सयाजए" इति गाथान्तायाम्, अर्थतः कथितायाम् - मनोवाक्कायैः कृतकारितानुमतिभेदेन सम्यगधिगतायाम् । परिहरति-अधिगतषड्जीवनिकायस्य शैक्षस्योपस्थापनार्थं परीक्षा क्रियते । सा चैवम्
गीतार्थसाधुः शैक्षं पृष्ठतः कृत्वा बहिर्गच्छन् हरितकायोपरि भागेन गच्छति, ततः शैक्षोऽपि यद्युपरि गच्छति तन्नोपस्थापनार्हः, यदि च स्वयं स्थित्वैवं वक्ति "गणिमिश्राः ! साधूनां हरित्कायोपरि गन्तुं न बुध्यते, तत्कथं यूयं गता” इति, ततो गीतार्थः साधुः शीघ्रं वलति, वक्ति च " क्षुल्लक ! अपचित्ततया वयं गताः, अत्रार्थे मिथ्या मे दुःकृतम्” इत्युक्त्वा गुरुपार्श्वे गत्वा सर्वं निवेदयति । ततो गुरवः षड्जीवनिकायविराधनापरिहरणाद् योग्य इति । छक्कंति-षट्कं षड्जीवनिकायरूपं परिहरति । नवकेन भेदेन नवभिभेदैर्मनसा परिहरति, परिहारयति, परिहरन्तमनुमोदते, एवं वाचा, एवं कायेन, इति ज्ञात्वा शैक्षमुपस्थापयन्ति नान्यथा ।
अत्र पटादयोदृष्टान्ताः-मइलो पडो न रंगिज्जइ, सोहिओ रंगिज्जइ । असोहिए मूलपाए पासाओ न किज्जइ, सोहिए किज्जइ । वमणाईहिं असोहिए आउरे ओसहं न दिज्जइ, सोहिए दिज्जइ । असंठविए - असंस्कृते रयणे आहरणे पडिबन्धो न किज्जइ, संठविए किज्जइ । एवं पढियकहियाईहिं असोहीए सीसे वयारोवो न किज्जइ, सोहिए किज्जइ । असोहियकरणे गुरुणो दोसो, सोहियस्स अपालणे सीसस्स दोसुत्ति । कृतं प्रसङ्गेन ।
,
Jain Education International
]
अधुना षड्जीवनीकाययतनामाह
से भिक्खू वा भिक्खुणी वा संजय - विरय- पडिहय-पचक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागड वा सुते वा जागरमाणे वा । स- इति योऽसौ महाव्रतयुक्तः । भिक्षुर्वा भिक्षुणी वा आरम्भपरित्यागात् धर्मपरिपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषज्येष्ठो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि भिक्षुक्या अपि ज्ञेयानीत्याह । संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा
For Personal & Private Use Only
३४५
www.jainelibrary.org