________________
श्रीदशवैकालिकसूत्रम्
३४१ इच्छेसिं छण्हं जीवनिकायाणं नेव सयं दण्डं समारंभिजा, नेव।हिं दंडं समारंभाविजा, दंडं समारंभंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । (सू० २)
इत्येषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारम्भे, नैवान्यैर्दण्डं समारम्भये, दण्डं समारभमाणानप्यन्यान समनुजानामि-नानुमोदयामि, अत्र प्राकृतत्वात् सप्तमीस्थाने वर्तमानैव व्याख्येया । यावज्जीवनम्-यावज्जीवा “भिदादित्वाद्"[ ] अङि यावज्जीवा, तया यावज्जीवया । त्रिविधम्-करणकारणानुमतिरूपं दण्डम् । त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्येति पञ्चम्यर्थे षष्ठी, ततः-दण्डात् । “गुरुसाक्षिकी व्रतप्रतिपत्तिः साध्वी” इति भदन्त ! -भवान्त ! भयान्तेति गिरा गुरूनामन्त्र्य प्रतिक्रामामि-निवर्तते। इह वर्तमानक्रियया अतीतानागतप्रतिक्रमणमपि ग्राह्यम्, यष्टेर्मध्यग्रहणे आद्यन्तग्रहणवत् । निन्दामि गर्हे-इति दण्डप्रवृत्तस्यात्मन आत्मसाक्षिकी निन्दा, गुरुसाक्षिकी गर्हा-जुगुप्सा । एतद्दण्डकारिणम्-आत्मानं व्युत्सृजामि-त्यजामि । .....एष सामान्येन षड्जीवकायदण्डनिषेध उक्तः, विशेषतश्च महाव्रतरूपतया स्वीकार्यः । अतो महाव्रतान्याह___पढमे भंते महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते पाणाइवायं पलक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, नेव सयं पाणे अइवाइजा, नेवन्नेहिं पाणे अइवायाविजा, पाणे अइवायंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते, पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । (सू० ३)
प्रथमे भदंत ! महाव्रते-श्रावकाणुव्रतापेक्षया महति व्रते । प्राणा:-इन्द्रियादयः, तथा चोक्तम्
.०० १-३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org