________________
३४२ . श्रीतिलकाचार्यविरचितटीकायुतम् ।
पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिच्छ्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्ता-स्तेषां वियोगीकरणं च हिंसा ।।१।।
इन्द्रवज्रा [ ] तेषामतिपातः प्राणातिपातः-जीवस्य दु:खोत्पादनं, न तु जीवातिपातः तस्य नित्यत्वात् । तस्माद् विरमणम्-निवर्तनं भगवतोक्तमिति शेषः । सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामि-प्रति-अविरतिप्राप्तिकूल्येन, आ-सामास्त्येन, ख्यामि-प्रतिषेधामि, प्राणातिपातविरतिं करोमीत्यर्थः । अथ सूक्ष्मं वा बादरं वा-अत्र सूक्ष्मःअल्पैः परिग्रहः, न तु सूक्ष्मनामकर्मोदयात् सूक्ष्मः, तस्य व्यापादनाभावात्, बादर:स्थूल: । एकैकोऽपि द्विघा त्रसः स्थावरश्च-सूक्ष्मस्रसः कुन्थ्वादिः, सूक्ष्मस्थावरः पनकादिः, बादरनसो गवादिः, बादरस्थावरः पृथ्व्यादिः । नेव सयं पाणे इत्यादि स्पष्टं प्राग्वत् ।
निगमनमाह
पढमे भंते महव्वए उवढिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥१॥ (सू० ३)
उपस्थितोऽस्मि-उप-सामीप्येन तत्परिणामापत्त्या स्थितः । इतः आरम्भ मम सर्वस्मात् प्राणातिपाताद् विरमणम् । अत्र पुनर्भदन्तग्रहणं स्वीकृतमपि व्रतं पुनर्गुरोनिवेदितमाराधितं स्यादित्येतदर्थमुक्तं प्रथमं महाव्रतम् ।।
द्वितीयमाह
अहावरे दुचे भंते महव्वए मुसावायाओ वेरमणं, सव्वं भंते मुसावायं पञ्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वएजा, नेवहिं मुसं वायाविजा, मुसं वायंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतं पि अत्रं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । दुछे भंते महब्बए उवढिओमि सव्वाओ मुसावायाओ वेरमणं ।।२।। (सू०४)
अर्थः प्राग्वत् । * ल्पविग्रहः २.११ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org