SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३४० श्रीतिलकाचार्यविरचितटीकायुतम् __ जेसिं केसिंचि पाणाणं अभिक्कंतं पडिक्वंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइगइविनाया जे य कीडपयंगा जा या कुंथुपिवीलिया सव्वे बेंदिया, सव्वे तेइंदिया, सव्वे चउरिंदिया, सव्वे पंचिंदिया, सब्वे तिरिक्खजोणिया, सब्वे नेरइया, सब्वे मणुया, सब्वे देवा, सवे पाणा परमाहम्मिया । येषां केषांचित् । प्राणानाम्-प्राणिनाम् । अभिक्रान्तम्-अभिमुखं क्रमणम्। प्रतिक्रान्तम्-प्रतिक्रमणम् । सङ्कुचितम्-गात्रसङ्कोचनम् । प्रसारितम्-गात्रस्य विततकरणम् । रुतम्-शब्दकरणम् । भ्रान्तम्-इतश्चेतश्च भ्रमणम् । त्रस्तम्-त्रसनम् उद्वेगात् । पलायितम्-पलायनं, भयान्नाशनम् । तथा आगते:-कुतश्चित् । गते:क्वचित् । विज्ञातारः । आह पर:-अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद् भेद इति किं भेदेनाभिधानम् ? । ___उच्यते-त्रसा हि विज्ञायाभिक्रमणप्रतिक्रमणे कुर्वन्ति । लतादयस्त्वोघसंज्ञयैव वृत्यादिकं प्रति अभिक्रामन्ति इति ज्ञापनार्थम् । __ येच कीटपतङ्गा:-कीटा:-कृमयः, पतङ्गाः-शलभाः । याश्च कुन्थुपिपीलिकाः, किं बहुना ? । सर्वे द्वीन्द्रियाः, सर्वे त्रीन्द्रियाः, सर्वे चतुरिन्द्रियाः, सर्वे पञ्चेन्द्रियाः, सामान्येन । विशेषतश्च सर्वे तिर्यग्योनिकाः, सर्वे नैरयिकाः, सर्वे मनुजाः, सर्वे देवाः । सर्वे प्राणा:-त्रसाः स्थावराश्च । परमधर्मप्रभावमुपचारात् सुखमपि परमधर्मः, तमभिलषन्तीति “क्रीतादित्वाद्” [ ]इकणि परमधार्मिका:-सुखाभिलाषिण इत्यर्थः । जा या परमाहम्मिया इत्यत्र दीर्ध: प्राकृतत्वात् ।। एसो खलु छट्ठो जीवनिकाओ तसकाउ त्ति पवुछई ।। (सू०१) स्पष्टम् । एषां दण्डपरिजिहीर्षया आह*य ४.६-१२ ।। . परमा० ३-५.११ ।। - एसो ख० ६-१०.१२ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy