________________
श्रीदशवकालिकसूत्रम्
३३९ अंग्रेबीजा:-कोरण्टकाद्याः । मूलबीजा:-उत्पलकन्दाद्याः । पर्वबीजा:इक्ष्वाद्याः । स्कन्धबीजा:-शल्लक्याद्याः । बीजरुहाः-शाल्याद्याः । सम्मूर्छन-सम्मूर्छा, सम्मूर्च्छया निर्वृताः समूर्छिमाः, “भावादिमः” [सि० सू. ६.४,२१] इतीमः, अबीजाः सर्वसङ्ग्रहार्थं चैतत् । तृणलता:-वनस्पतिकायिकाः, तृणशब्देन तृणजातेः, लताशब्देन वृक्षजातेर्ग्रहणम् । वनस्पतयः-प्रत्येकजीवासङ्ख्यातजीवानन्तजीवाद्यनेकभेदाः । सबीजाः चित्तवन्त-इत्यर्थः प्राग्वत् ।
अत्राशङ्का-किं बीजजीव एव मूलजीवो भवत्युतान्यः पृथ्वीकायिकादिः तस्मिन् व्युत्क्रान्ते उत्पद्यते ।
___अत्रोत्तरम्-बीजजीव एव व्युत्क्रम्य मूलजीवत्वेनोत्पद्यते ततः किशलयावस्थामनन्तजीवाः कुर्वन्ति । तेषां स्थितिक्षये मूलजीव एव तत्तनूं स्वशरीरतया परिणम्यावतिष्ठते । यावत् प्रथमपत्रं शेषपत्रपुष्पफलाद्यन्ये जीवाः कुर्वन्ति ।
अथ त्रसाधिकारे इदमाह
से जे. पुण इमे अणेगे बहवे तसा पाणा तं जहा अंडया पोयया जराउया रसया संसेयमा समुच्छिमा अब्भिया उववाइया ।
सेशब्दः-अथशब्दार्थः । अथ ये पुनरमी । अनेके-अनेकसङ्ख्याः । बहवःबहुप्रकाराः । त्रसा:-प्राणाः । प्राणा:-उच्छवासादयो विद्यन्ते येषां ते, अभ्रादित्वाद् [ ] मत्वर्थीयेऽचि प्राणाः प्राणिनः इत्यर्थः । तद्यथा अण्डजा:पक्षिगृहोलिकाद्याः। पोतादिव जायन्ते इति पोतजाः-हस्तिवल्गुल्यादयः । जरायुवेष्टिता जायन्ते इति जरायुजा:-गोमहिष्यजाविकमनुष्याद्याः । रसजा:-तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति । संस्वेदजा-मत्कुणयूकाद्याः । समूर्छनजा:पिपीलिकामक्षिकाद्याः । उद्भेदजा:-भुवमुद्भिद्य जाताः, पतङ्गखञ्जरीटाद्याः । औपपातिका:-पल्यङ्के देवदूष्यमध्ये उपपातमात्राजाताः, न तु गर्भजाः देवा नारकाश्च।
एषां लक्षणमाह* तया नि० ६-१०.१२ ।। . ०वी ३-५ ७, वा भवन्त्यु० १ ।। - णा: उच्छ्व० १.१० ।।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org