SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३३८ . श्रीतिलकाचार्यविरचितटीकायुतम् तथा चागमःएगस्स दुह्र तिह्न य, संखिज्जाण व न पासिउं सक्का । दीसंति सरीराइं, पुढविजियाणं असंखिज्जा ।।१।। [ पृथक्सत्त्वा-अङ्गुलासङ्ख्येयभागमात्रावगाहनया अनेकजीवसमाश्रिता । अत्राह पर:-यद्येवं जीवपिण्डरूपा पृथ्वी ततस्तत्रोञ्चारादिकरणे साधूनामहिंसकत्वानुपपत्तिः । अत्रोत्तरम्-शस्त्रपरिणतां विना पृथ्वी चित्तवती । शस्त्राणि चास्या:-अनिलानलस्नेहाम्ललवणादीनि । एवं परिणतपृथ्व्यामुञ्चारादिकरणेऽपि साधूनामहिंसकत्वम्इत्यागमः । अनुमानमप्यत्र-सात्मका विद्रुमलवणोपलाद्या, पृथ्वीसमानजातीयाङ्कुरोत्पत्युपलम्भात् भ्रूणमांसाङ्कुरवत् । एवमागमोपपत्तिभ्यां व्यवस्थितं पृथ्वीकायिकानां जीवत्वम्। उक्तं चआगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणं । अंतीन्द्रियाणामर्थानां, सद्भावप्रतिपादने ।।१।। . आगमो ह्याप्तवचन-माप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसम्भवात् ।।२।। [ एवमप्-तेजो-वायु-वनस्पतिसूत्राण्यापि व्याख्येयानि । अनुमानान्यपि चैवम् -सात्मकं जलं भूमिखननाऽभ्रतलतः स्वभावेन सम्भवात्, दर्दुरकाङ्काहिकादिवत् । सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालवत् । सात्मकः पवनः, अपराप्रेरिततिर्यग्नियमितदिग्गमनात्, गोवत् । सात्मकास्तरवः, सर्वत्वगपहरणे मरणात्, गर्दभादिवत् । वनस्पतीनां जीवविशेषेणाह अग्गबीया मूलबीया पोरबीया खंधबीया बीयरूहा समुच्छिमा तणलया, वणस्सइकाईया सबीया चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । खे० ६-८.१० ।। ०ता: ४.५.९.११.१२ ।। १. केवलिगम्यानामनाम् * ०हं २.८ ।। ॐ य ६-८.१० ।। 0 १० टि० ।। १०ङ्की० ७.९ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy