SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् ३३७ गुरुराह इमा खलु सा छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपनत्ता, सेयं मे अहिजिउं अजयणं धम्मपन्नत्ती । उक्तार्थं सूत्रम् । तं जहा तद्यथा-षड्जीवनिकायानाह पुठविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणसइकाइया तसकाइया । . . पृथ्वी-काठिन्यलक्षणा । आपः-द्रवाः । तेजः-उष्णम् । वायु:-चलनधर्मा। वनस्पतिः-लतादिरूपः । त्रसा:-त्रसनशीलाः । तत्तद्रूप: कायो येषां ते पृथ्वीकायाद्याः। स्वार्थे इकणि [ ] पृथ्वीकायिकाः, अप्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः, त्रसकायिकाः । इह सर्वभूताधारत्वात् पृथ्व्या इति प्रथमं पृथ्वीकायानामुपन्यासः । ततस्तत्प्रतिष्ठितत्वादप्कायिकानाम् । अथ तत्प्रतिपक्षत्वात् तेजस्कायिकानाम् । तदनु तेजस उपष्टम्भकत्वाद्वायुकायिकानाम् । अनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाद् वनस्पतिकायिकानाम् । अथ वनस्पतेस्रसोपयोगित्वात् त्रसकायिकानामिति । पुनरेषां जीवत्वं प्रकटयन्नाह1. पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणए.णं, आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तेऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अनत्थ सत्थपरिणएणं, वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अनत्थ सत्थपरिणएणं, वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, पृथ्वी चित्तमती-सचित्ता अथवा चित्तमात्रा, चित्तं-चैतन्यं तत् स्तोकम् एकेन्द्रियाणाम्, ततोऽधिकाधिकं द्वीन्द्रियादीनाम् । आख्याता-सर्वज्ञेन कथिता । अनेकजीवा:-असङ्ख्यातजीवाः तेषामेव दृश्यत्वात् । * ०अ० १-३.८.११ ।। . ०स० १. ३ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy