________________
३३६
.
श्रीतिलकाचार्यविरचितटीकायुतम्
॥ चतुर्थं षड्जीवनिकायिकाध्ययनम् ।।
अनन्तराध्ययने आचारः कथितः । स च षड्जीवनिकायगोचर इत्यनेन सम्बन्धेनायातं षड्जीवनिकायिकाध्ययनं व्याख्यायते
तञ्चेदम्
सुयं मे आउसं तेणं भगवया एवमक्खायं ।
सुधर्मस्वामी जम्बूस्वामिनमाह- श्रुतम्-आकर्णितं गृहीतम्। मे-मया। हे आयुष्मन् ! तेन भगवता-श्रीवर्धमानस्वामिना । एवमाख्यातम्-केवलज्ञानेनोपलभ्यावेदितम् ।
किं तदित्याह
इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहिज्जिडं अज्झयणं धम्मपन्नत्ती ॥ ____ इह-प्रवचने जैने । खलु-निश्चयेन नान्यत्र । षड्जीवकायिकानामांध्ययनम् - -इत्यध्ययनरूपा । श्रमणेन भगवता महावीरेण काश्यपेन-काश्यपसगोत्रेण । प्रवेदिता -केवलालोकात् प्रकर्षेण वेदिता ज्ञाता । स्वाख्याता-सदेवमनुजासुरायां पर्षदि कथिता । सुप्रज्ञप्ता-यथैवाख्याता तथैवासेविता, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः [ ] । अतः श्रेयो मेऽध्येतुम्ध्ययनम्-षड्जीवनिकायिकाख्यम् इह पुनरध्ययनाभिधानं पूर्वोक्तानुवादमात्रमेव । धर्मप्रज्ञप्ति:-धर्मस्य प्रज्ञप्तिर्यतस्तद्धर्मप्रज्ञप्तिः ।
शिष्यः पृच्छति
कयरा खलु सा छज्जीवणीयानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपनत्ता, सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ।
ख्यं
* ०यं २-५.१२ ।। . ०म० १.४.८.१२ ।। 0 नं श्रम० २.६-१०.१२ ।। * ०दै० १.२.१० ।। है धर्मप्र० २.६-१०.१२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org