________________
श्रीदशवैकालिकसूत्रम्
३३५ आतापयन्ति-आतापनां कायोत्सर्गस्थाः सहन्ते ग्रीष्मेषु । हेमन्तेष्वप्रावृत्ताःअप्रावरणाः शीतं सहन्ते । वर्षासु प्रतिसंलीना:-आश्रये एव गुप्ताङ्गाः सन्ति । संयता:-साधवः । सुसमाहिता:-सुष्ठु समाधानभाजः ।।
किं चपरीसहरिऊदंता, धुयमोहा जिइंदिया । सव्वदुक्खपहीणट्ठा, पक्कमंति महेसिणो ।।१३।। परीषहा:-क्षुदाँद्याः । तद्यथाखुहा पिवासा सीउण्इं, दंसा चेलारइथिओ । चरिया निसीहिया सिज्जा, अक्कोस वह जायणा ।।१।। अलाभरोगतणफासा, मलसक्कारपरीसहा ।
पन्ना अन्नाणसम्मत्तं, इय बावीसं परीसहा ।।२।। [नवतत्त्व-२७-२८] त एव रिपवः, ते दान्ताः-शमं नीता यैस्ते दान्तपरीषहरिपवः इत्यर्थः । धुतमोहा:विक्षिप्ताज्ञानाः । जितेन्द्रियाः-शब्दादिष्वरक्तद्विष्टाः । सर्वेषां दुःखानाम्-शारीरमानसानां, प्रहाणार्थम् –प्रक्षयनिमित्तम् । प्रक्रमन्ते-प्रवर्तन्ते महर्षयः ।।
इदानीमेतेषां फलमाहदुक्कराइं करित्ताणं, दुस्सहाई सहिन य ।
के इत्थ देवलोगेसु, केई सिझंति नीरया ।।१४।। _ दुःकराणि-औद्देशिकत्यागादीनि कृत्वा । णं-वाक्यालङ्कारे । दुःसहानिआतपादीनि । सोढ्वा, केचिदत्र देवलोकेषु-सौधर्मादिषु, यान्तीति शेषः । केचित् सिध्यन्ति नीरजस:-क्षपितकर्माष्टकाः ।।
येऽपि देवलोकं गतास्तेऽपि ततश्च्युताः सन्तः साधुधर्मं प्राप्य
खवित्ता पूव्वकम्माइं, संजमेण तवेण य । - सिद्धमग्गमणुप्पत्ता, ताइणो परिनिव्वुड त्ति बेमि ।।१५।। क्षपयित्वा पूर्वकर्माणि-अशेषाणि । संयमेन तपसा च, सिद्धिमग्र्यां-लोकाग्रस्थाम्, अनुप्राप्ताः, न तु अणिमादिसिद्धिम् । तायिनः । परिनिवृताः-परमां निर्वृतिं भेजुः। इति ब्रवीमि ।। • धू०.४ ।। * ०धा० ६-१२ ।। १. वसति ३ टि० ।। २. संस्तारकः ४ टि० ।। 0 ०स० ४ ।। * ०स्ते परी० १.३-५, ०स्ते परीषहरिपुदन्ताः दान्त० ६-१२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org