SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३३४ श्रीतिलकाचार्यविरचितटीकायुतम् तथा धूवणत्ति वमणे य, वत्थीकम्मविरेयणे । अंजणे दंतवणे य, गायाभंगविभूसणे ।।९।। धूपनम्-वस्त्रादेः, अनागतव्याधिनिवृत्तये धूमपानं वा । वमनम्-निःकारणं मदनफलादिना । वस्तिकर्म-पुटकेनाऽपाने स्नेहदानम् । विरेचनम्-हरीतक्यादिना । अञ्जनम्-दृशोः । दन्तवनम्-दन्तकाष्ठं प्रतीतम् । गात्रस्याभ्यङ्गः -तैलादिना । विभूषणम्-विलेपनादि ।। निगमनमाहसव्वमेयमणाइन, निगंथाण महेसिणं ।। संजमंमि य जुत्ताणं, लहुभूयविहारिणं ।।१०॥ सर्वमेतद्-औद्देशिकादि, अनाचीर्णम् । निर्ग्रन्थानां महर्षीणां संयमे । चशब्दात् -तपसि च । युक्तानाम्-उद्यतानाम् । लघुभूतविहारिणाम-लघुभूतो वायुः, तद्वत् प्रतिबद्धतया विहारो येषां ते तथा तेषाम् ।। किमित्येतदेषामनाचीर्णं, यत एते एवम्भूता भवन्तीत्याहपंचासवपरिन्नाया, तिगुत्ता छसु संजया । पंचनिग्रोहणा धीरा, निग्गंथा उज्जुदंसिणो ॥११॥ पञ्चाश्रवाः-हिंसादयः, ते परिज्ञाताः-प्रत्याख्याता यैस्ते पञ्चाश्रवपरिज्ञाताः। आहिताग्न्यादेराकृतिगणत्वात् परिज्ञातपञ्चाश्रवा इत्यर्थः । त्रिगुप्ता:-त्रिभिर्मनोवाक्कायैगुप्ताः । षड्जीवनिकायेषु-पृथिव्यादिषु । सम्यग्यताः । पञ्चेन्द्रियाणि निगृह्णन्तीति पञ्चनिग्रहणाः। "कृत्यल्युटोऽन्यत्रापि च" [ ] इति कर्तरि युट् । धिया राजन्तीति धीराः- बुद्धिमन्तः स्थिरा वा । निर्ग्रन्थाः । ऋजु मोक्षं प्रति सरलमार्गकल्पं संयम पश्यन्तीत्येवं धर्माणः ऋजुदर्शिनः ।। ते च यथाकालं यथाशक्तत्यैतत् कुर्वन्तिआयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया ।।१२।। * ०शोः दन्तकाष्ठं १.३-१२ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy