________________
श्रीदशवकालिकसूत्रम्
३३३ शय्यातरः-साधुवसतिदाता, तत्पिण्डः । आसन्दक:-मञ्चकः । पर्यङ्क:पटिकादिव्यूता खट्वा । गृहान्तरनिषद्या च-स्वाश्रयादन्यत्र गृहे निषद्या, निःकारणमासनम् । गात्रस्योद्वर्तनानि-पिष्टिकादिना । चशब्दाद्-अन्योऽपि विलेपनादि-संस्कारः ।।
तथागिहिणो वेयावडियं, जा य आजीववत्तिआ । तत्तानिव्वुडभोइत्तं, आउरसरणाणि या ।।६।।
गृहिणो वैयावृत्यम्-आसनाद्यर्पणम् । या चाऽऽजीववृत्तिता-जाति-कुलगण-शिल्पैरन्नार्थमहमपि त्वज्जातीय इत्यादिवाग्भिराजीवनमाजीवस्तद्वृत्तिता । तप्तानिवृत्तभोजित्वम्-तप्तं तप्तमात्र ने त्रिदण्डोत्कलितम्, अत एवानिवृत्तम् –अपरिणतं, तप्तानिर्वृत्तं अर्थादुदकमिति गम्यते, मिश्रोदकभोजित्वमित्यर्थः । आतुरस्मरणानि च-क्षुदाद्यातुरैः पूर्वोपभुक्तवालुकादेः स्मरणानि च ।।
मूलए सिंगबेरे य, उच्छुखण्डे अनिम्बुडे । कंदे मूले य सचित्ते, फले बीए य आमए ।।७।।
मूलक, शृङ्गबेरं, इक्षुखण्डं, अनिवृत्तम् इदं च त्रिष्वपि योज्यम् । कन्दःसूरणादेः । मूलम्-वृक्षादेः । सचित्तं फलम्-वालुकादि । बीजम्-तिलादि । आमकम्अपक्वसचित्तम् ।।
तथा- . .
सोवाले सिंधवे लोणे, रोमालोणे य आमए । ... सामुद्दे पंसुखारे य, कालालोणे य आमए ॥८॥
सौवर्चल, सैन्धवं, लवणं, रुमालवणमाऽऽमकम्-रुमालवणखानिः, तज्जम् । समुद्रः-समुद्रासन्नः । पांशुक्षार:-अथवा शाकम्भरियाकरजः पांशुक्षारः । तत्र चअस्थ्याद्यपि पतितं लवणीभवति। कृष्णलवणम्-सिन्धुदेशीयपर्वतैकदेशजम् । आमकम्।।
ती० २ ।। . ०त्रमत्रि० ६-१२ ।। १. अत्रिदण्डोद्वृत्तम्, अलिनम् इति चूर्णि-बृहट्टीकादिष्वभणितत्वादुत्सूत्रं ज्ञेयम् १ टि० ।। २. त्रण उकाला इति भाषा० ।। 0 लक: २.५.१०.११, ०लं ६-९.१२ ।। ३. आदू: १० टि० ।। ४. काचुं १० टि० ।। * रु० ५.८ ।। है शे० १।।
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only