SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३३२ श्रीतिलकाचार्यविरचितटीकायुतम् गृहीतं रात्रिं परिवास्य दिवा भुक्तमिति चतुर्विधम् । स्नानं - अपानशौचं विना मुखक्षालनाद्यपि देशतः स्नानं, सर्वतः स्नानं तु सर्वाङ्गक्षालनम् । गन्धः -कर्पूरादिवासः । माल्यम्पुष्पमालादि । वीजनम्–घर्मादौ तालवृन्तादिना । रायभत्ते इत्यादावेकारः “अत एत्सौ पुंसि मागध्याम्” [सि० सू ८.४.२८७] इति वचनात् । दोषश्चौद्देशिकादिष्वारम्भप्रवर्तनादिः।। तथा— सन्निही गिहिभत्ते यँ, रायपिंडे किमिच्छए । संवाहण दंतपहोअणा य, संपुच्छणा देहपलोयणा य ॥३॥ सन्निधीयते दुर्गतावात्मा अनेनेति सन्निधिः । आहाराणां स्वाश्रये स्वार्थं परार्थमपि वा स्थापनं गृहमात्रं गृहस्थभाजनम् । राजपिण्डः - नृपाहारः । कः किमिच्छतीत्येवं यो दीयते पिण्डः स किमिच्छकः । निरुक्त्या शब्दसिद्धिः । संवाहनम् - अस्थिमांसत्वग्रोमसुखदं मर्दनम् । दन्तप्रधावनम् – इष्टिकाचूर्णाङ्गुल्यादिर्भिर्दन्तक्षालनम्। सम्प्रश्नः-सावद्यो गृहस्थादिविषयः कीदृशोऽहं रूपेणेत्यादिको वा । देहप्रलोकनम् - - आदर्शादौ, दोषाश्चैषु परिग्रह-प्राणिघात - शोभाद्याः ।। " तथा अट्ठावए य नालीय, छत्तस्स य धारणट्ठाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो ।।४।। अष्टापदम्-सारिद्यूतम्, अर्थपदं वा गृहिणामर्थार्जनाय निमित्तादिकथनम् । नालिका नालचॅमिति प्रसिद्धं द्यूतम्, आस्तामान्धिकादि । छत्रस्य च धारणा-आत्मनः परस्य वा अर्थाय । आगाढग्लानादित्वं मुक्त्वा चैकित्स्यम् । उपानहौ-निः कारणं पादयोः । समारम्भश्च । ज्योतिषः - अग्नेः । एषु च दोषाः प्रतीता एव ।। किंच सिज्जायरपिंडं च, आसंदीपलियंकए । गिहंतरनिसिज्जा य, गायस्सु वट्टणाणि य ॥ ५ ॥ ०न्ध० १.२.१० ।। ५ अ ८ ।। ०अ० ६-९ ।। इत्यतः क्षालनं यावत् पाठः १२ प्रतौ नास्ति ।। है दन्तकाष्ठाङ्गु० २.६-८.१०.११, दन्तकाष्ठइष्टिका० ५ ।। + ०ना दन्त० ४ ।। वाहणो ८ ।। Û ०च्छ० ६९.१२, ०त्व० १० ।। ०कत्वं ६ १०.१२ ।। ०सीं १ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy