________________
श्रीदशवैकालिकसूत्रम्
।। तृतीयं क्षुल्लिकाचारकथाध्ययनम् ।।
इहानन्तराध्ययने श्रामण्यमुक्तं श्रमणेन च विशुद्धे आचारे धृतिः कार्याः इत्यनेन सम्बन्धेनायातं क्षुल्लिकाचारकथाध्ययनं तृतीयं व्याख्यायते ।
तचेदम् -
संजमे सुट्ठियप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइन्नं, निग्गंथाण महेसिणम् ।।१।।
संयमे - सप्तदशभेदे चारित्रे । ते चामी - पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः, कषायजयः, दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः । अथ चैवं संयमः सप्तदशधा । पुढविदगअगणिमारुय-वणसइबितिचउपणिदिअज्जीवे । पेप्पेहपमंजण-परिठवणमणोवइकाए ।।१।। [
]
सुस्थित आगमनीत्या व्यवस्थित आत्मा येषां ते सुस्थितात्मानः । अत्र सूत्रे प्रथमार्थे षष्ठी । “यत्तदोर्नित्याभिसम्बन्धात्" ये संयमे सुस्थितात्मानः विविधैः सांसारिकैर्भावैः प्रकर्षेण मुक्तास्त्यक्ताः विप्रमुक्ताः । तायिन:- तीयृङ् पालने [ सि० धा० ८०६ ] षड्जीवनिकायरक्षकाः । तेषां महर्षीणाम् निर्ग्रन्थानाम् - बाह्येन वसत्यादिना, आन्तरेण च क्रोधादिना, ग्रन्थेन परिग्रहेण रहितानाम् । एतद् वक्ष्यमाणमनाचीर्णं च धातुरार्षः, अनाचरितम् अकल्प्यमित्यर्थः ।
किं तदनाचीर्णमित्याह
उद्देसियं कीयगडं, नियागमभिहडाणि य ।
भत्ते सिणा य, गंधमले यँ वीयणे ॥ २ ॥
।
उद्देशनं साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः, तत्रोद्देशे भवमौद्देशिकम्द्वितीयोद्गमदोषः । अथवा, उद्देशेन साधुसङ्कल्पेन यत् पचनादिनिर्वृत्तं तदौद्देशिकम्आधाकर्मिकर्मप्युच्यते । क्रयणं क्रीतं भावे क्तः, तेन क्रयणेन कृतम् । साध्वर्थं गृहीतं वस्त्रादि क्रीतकृतम् । नित्यं - नित्यपिण्डं, आमन्त्रितस्य साधोः नित्यं तावत्प्रमाणपिण्डग्रहणम् । अभिहृतानि च - स्वग्रामादेः साध्वर्थमानीतानि, चः समुच्चये । रात्रिभक्तम्-नाम दिवागृहीतं रात्रौ भुक्तं, रात्रौ गृहीतं दिवा भुक्तं, रौत्रौ गृहीतं रात्रौ भुक्तं, दिवा
१. धातुः १० टि० ।।
०आ० ८ ।। ५ ०इ० १.३.४ ।। अ वीअणे ८ ।। ०मित्यु० ६.८-१० ।।
Jain Education International
३३१
For Personal & Private Use Only
www.jainelibrary.org