SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३२९ श्रीदशवैकालिकसूत्रम् ‘पूर्वं प्रद्युम्नशाम्बाद्याः, कोटिशः सिद्धिमैयरुः । राजीमतीप्रभृतयो, व्रतिन्योऽपि च लक्षशः ।।३४९५ ।। गृही चतुर्वर्षशती, छद्मस्थो वत्सरं स्थितः । पञ्चवर्षशतीमासीद्, रथनेमिस्तु केवली ।।३४९६ ।। राजीमत्या अपि तथा, कौमारं छद्मवासिता । केवलित्वं च सर्वेऽपि, पर्याया रथनेमिवत् ।।३४९७ ।। नेमेवर्षशतेनाग्रे, ययौ राजीमती शिवम् । यद्रक्तो मा मुचन्नेमिः, सिद्धिः तां किल वीक्षितुम् ।।३४९८ ।। महेन्द्रेऽगात् शिवादेवी, समुद्रविजयोऽपि च । दशार्हा अपरेऽप्यष्टौ, स्वर्गलक्ष्मीभुजोऽभवन् ।।३४९९।। श्रीनमिस्वामिनिर्वाणाद्, वर्षलक्षेषु पञ्चसु । व्यतीतेषु प्रभोनेमे-निर्वाणं समजायत ।।३५०० ।। शक्रादेशात् प्रभोः श्रीदः, शिबिकां निर्ममेऽद्भुताम् । विधिना पूजयित्वाङ्गं, तस्यामिन्द्रः स्वयं न्यधात् ।।३५०१ ।। . चक्रिरे दिशि नैऋत्यां, सुरा रत्नशिलोपरि । हिमवत्पर्वतानीतै-श्चितां गोशीर्षचन्दनैः ।।३५०२।। उत्पाट्य शिबिकां तत्रा-निनाय मघवा स्वयम् । तस्यां चितायां श्रीनेमि-स्वामिनो वपुरक्षिपत् ।।३५०३।। अग्निमग्निकुमाराश्च, तत्र शक्राज्ञया व्यधुः । देवा वायुकुमाराश्च, ज्वालयामासुराशु ताम् ।।३५०४।। क्षीरोदाम्भोभिः कालेग्निं, स्तनिता निरवापयन् । शक्रेशानादयश्चेन्द्रा,दंष्ट्रा जगृहिरे प्रभोः ।।३५०५ ।। शेषास्थीन्यपरे देवा-स्तदेव्यः कुसुमोञ्चयम् । नृपाश्चेलानि लोकस्तु, श्रीनेमभूतिमाददे ।।३५०६।। १. मेघकुमाराः १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy