________________
३२८ . श्रीतिलकाचार्यविरचितटीकायुतम्
अवधिज्ञानिसाधूनां, सहस्रं सार्द्धमेव च । तति वैक्रीयलब्धीनां, तति केवलिनोऽपि हि ।।३४८५।। सहस्रमनगाराणां, मनःपर्यवशालिनाम् । सम्पन्नवादलब्धीना-मष्टावेव शतानि च ।।३४८६।। श्रावकाणां लक्षमेको-नसप्ततिसहस्रयुक् । श्राविकाणां त्रिलक्षी च, नवत्रिंशत्सहस्रयुक् ।।३४८७।। . . एवंविधः परीवारः, त्रिजगज्जनतान्वितः । निर्वाणसमयं मत्वा, स्वाम्यागाद् वताचलम् ।।३४८८।।
समवसरणे देवैः, कृते श्रीनेमितीर्थकृत् । पर्यन्तदेशना चक्रे, विश्वोपकृतिहेतवे ।।३४८९।। सुपुण्यं कारुण्यं, शुभविरचं, सत्यवचनम्, सदा हेये स्तेयं, कृतसुगतिर-ब्रह्मविरतिः । सतोषः सन्तोषः, प्रशमकरणं, शर्मशरणम्, , धनाधानं दानं, सुकृतविधिरे-षोऽद्भुतनिधिः ।।३४९०।। शिखरिणी तया देशनया केचि-ञ्चारित्रं प्रतिपेदिरे । गृहिव्रतानि केचिच्च, केचित् कमप्यभिग्रहम् ।।३४९१।। मासोपवासतपसा, पादपोपगमेन च । . षट्त्रिंशदधिकैर्वाचं-यमानां पञ्चभिः शतैः ।।३४९२।। शुचौ मासे शिताष्टम्यां, शैलेशीकरणे स्थितः । चन्द्रे चित्रागते सायं, नेमिनिर्वाणमीयिवान् ।।३४९३।। स्थितः कुमारः शरदां शतत्रयीं, दिनांस्त्रिपञ्चाशतमात्तसंयमः । तदूनसप्ताब्दशती च केवली,
समा सहस्रायुरत शिवात्मजः ।।३४९४ ।। वंशस्थः १. १५०० १० टि० ।। २. १५०० १० टि० ।। ३. १५०० १० टि० ।। ४. १,००० १० टि० ।। ५. ८०० १० टि० ।। ६. १,६९,००० १० टि० ।। ७. ३,३९,००० ।। * ज्ञा० २ ।। . रे० १. ३ ।। 0 चितं ६-१० ।। ८. ५३६ १० टि० ।। ९. अषाढशुक्लाष्टम्याम् १० टि० ।। १०. वर्षाणाम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org