________________
३२६. श्रीतिलकाचार्यविरचितटीकायुतम्
मुनिरप्याददे सर्वं, भैक्षं शुद्धमगर्द्धनः । तस्यातिदानश्रद्धालोः, श्रद्धां श्राद्धस्य वर्धयन् ।।३४५९।। उन्मुखो हरिणः सोऽपि, हर्षबाष्पायितेक्षणः । मुनिं च रथकारं च, पश्यन्नेवं व्यभावयत् ।।३४६० ।। अहो ! तपोनिधिः स्वामी, करुणाक्षीरसागरः । अगृद्धोऽप्याददेऽन्नादि, दातुः श्रद्धाभिवृद्धये ।।३४६१।। - धन्योऽयं रथकारश्च, यस्यायं मुनिपुङ्गवः । ज्ञानपात्रं तपःपात्र-मागमद्दानपात्रताम् ।।३४६२।। अहं पुनरभाग्योऽस्मि, तिर्यक्त्व प्रापि कर्मभिः । न तपो वा न दानं वा, विधातुं शक्यते मया ।।३४६३।। सामग्री जात्वियं किं मे, भविष्यत्यनयोरिव । तपो-दानविहीनोऽस्मि, साम्प्रतं किं करोम्यहम् ? ।।३४६४।। तेषां त्रयाणामप्येवं, समभावजुषां तदा । उपरिष्टात् पपातार्ध-छिन्नो वात्याहतस्तरुः ।।३४६५ ।। वज्रपातादिव तत-स्रयोऽपि युगपन्मृताः । ब्रह्नलोकेऽभवन् देवाः, समं सर्वसमृद्धयः ।।३४६६।।
व्रतं वर्षशतं कृत्वा, बलदेवों दिवं गतः । पश्यति स्मावधिज्ञानात्, तृतीयोर्वीगतं हरिम् ।।३४६७।। भ्रातृस्नेहेन देहं स्वं, विधायोत्तरवैक्रियम् । ततः कूपादिवाक्रष्टुं, ययौ तत्र हरिं हली ।।३४६८।। तत्तेजोऽसहमानाश्च, परमाधार्मिकाः सुराः । नष्टाः कृष्णोऽपि नश्यंश्च, धृत्वालिङ्ग्याथ भाषितः ।।३४६९।। बन्धो ! भ्राता बलस्तेऽस्मि, ब्रह्मलोकादिहागमम् । एहि तत्र यथैकत्र, बान्धव ! स्थीयते सुखम् ।।३४७०।। इत्युक्त्वा पाणिनोद्धृत्य, कृष्णमुञ्चलितो बलः । गलित्वा न्यपतत् कृष्णो-ऽमिलत् पारदवत् पुनः ।।३४७१।।
*क्तां १ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org