________________
३२३
श्रीदशवैकालिकसूत्रम् एहि यामो वयं कञ्चिद्, भूपमुत्पाट्य लेष्टुवत् । करिष्यामः सुखेनैव, तद्देशे राज्यमात्मना ।।३४२० ।। यावन्नायाति मे बन्धु-र्बलो वरयिता च ते । तावदाश्वेव गच्छामः, पन्थानः सन्तु नः शिवाः ।।३४२१ ।। इत्युक्त्वा चलितौ तौ द्वौ, यातौ जङ्घालवज्जवात् । मार्गश्रममजानन्ता-विव पश्चान्न पश्यतः ।।३४२२।। रामं तस्याः स्त्रियः प्रेया-नूचे त्वद्वन्धुना सखे ! । विप्रतार्य ममानेन, धूर्तेनेव प्रिया हृता ।।३४२३।। रामस्तं स्माह हे मित्र !, मुक्त्वा पतिमपैति या । तस्या उपरि कः स्नेह-स्त्याज्यतां तत्कथापि हि ।।३४२४ ।।
एवं विमोहं विज्ञाय, रामभद्रस्य मानसम् । सिद्धार्थस्तस्य बोधाय, स्वरूपस्थोऽभवत् पुरः ।।३४२५।। ऊचे च प्राक त्वया भ्रात-व्रतार्थी प्रार्थितोऽभवम् । देवीभूतो व्रतात् त्वं मां, विधुरे बोधयेरिति ।।३४२६ ।। ततश्चाहं तव भ्रातृ-मोहापोहार्थमागमम् । रथभङ्गप्रभृतीनि, निदर्शनान्यदर्शयम् ।।३४२७ ।। कदम्बवन एवासौ, सुप्तस्तरुतले हरिः । जराकुमारबाणेन, परासुरभवत् तदा ।।३४२८ ।। ऊचे रामोऽपि सिद्धार्थं, प्रतिज्ञा पालिता त्वया । किं. करोम्यधुना प्राणा-धिकबन्धुविनाकृतः ? ।।३४२९।। अवादीदथ सिद्धार्थो, जिनदीक्षैव तेऽधुना । विधातुं बुध्यते बन्धो !, कालोचितमिदं यतः ।।३४३० ।। रामः स्वीकृत्य तद्वाचं, सार्धं तेन दिवौकसा । शाङ्गिणः कायसंस्कार, विदधे सिन्धुसङ्गमे ।।३४३१।।
ज्ञात्वा दिदीक्षिषु रामं, श्रीनेमिश्चारणं मुनिम् ।
प्रेषयामास तत्पार्श्वे, रामः संयममग्रहीत् ।।३४३२ ।। •धवो २, भर्ता ५ ।। . ०क्षा च १ ।। १. नदीसमुद्रयोर्मेलनं यत्र १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org