________________
३२२ श्रीतिलकाचार्यविरचितटीकायुतम्
इयद्भिरपि दृष्टान्तैः, प्रत्यबोधि न शीरभृत् । नरमेकं ततः कृत्वा, स्कन्धन्यस्ताङ्गनाशवम् ।।३४०७ ।। शीरिणोऽदर्शयद् देवः, शीर्दूचे तं किमस्त्यदः ? । सोऽवदन् मत्प्रिया रुष्टा, मया सार्धं न जल्पति ।।३४०८।। युग्मम् शीर्युवाचैष रुष्टोऽस्ति, मम भ्रातापि वक्ति न । ततः समानदुःखत्वा-दावयोरस्तु सङ्गतम् ।।३४०९।। बद्धसख्यौ ततस्तौ द्वौ, वनान्तान् भ्राम्यतः समम् । पूनर्वसू इव व्योम्नि, देस्राविव सुरौकसि ।।३४१०।। अथैकदा शवद्वन्द्वं, मुक्त्वैकत्र तरोस्तले । . . फलाद्यर्थं प्रतस्थाते, यावदन्तरितौ द्रुमैः ।।३४११।। तावत् सुप्त इवोत्तस्थौ, कृष्णः सा च तथाङ्गना । वार्ता कर्तुं प्रवृत्तौ तौ, सस्नेहं दम्पती इव ।।३४१२।।
आसन्नत्वात् तयोर्वार्ता, श्रुत्वा रामः पुमांश्च तौ । पादपान्ताहितौ स्थित्वा, शृण्वन्तौ विस्मिताननौ ।।३४१३।। दध्यौ रामः कथमयं, केशवः सहसोत्थितः ? । कथं वा वार्तयत्येव-ममुया सह रामया ? ।।३४१४ ।। ऊढः स्कन्धेन षण्मासान्, पूजितः प्रत्यहं मया । आलापितश्च सस्नेहं, चाटूक्तिभिरनेकशः ।।३४१५ ।। परं वाचोऽपि मे नादा-दपूर्व इव सर्वथा । विस्मृतो बन्धुसम्बन्धः, साहचर्यं च तच्चिरम् ।।३४१६ ।। क्षीरस्येव ममाद्यापि, स्नेहोऽमुं प्रति नात्रुटन् । नीरस्येव पुनर्नास्य, स्नेहलेशोऽपि मां प्रति ।।३४१७ ।। एवं विचिन्त्य शृण्वानौ, यावद् रामः पुमांश्च सः । तावत् कृष्णेन सा योषि-दुक्ता त्वां वच्म्यहं शुभे ! ।।३४१८ । । भिक्षाकेणामुना किं ते ?, मम पत्नी भवाधुना ।
को नाम कुञ्जरं प्राप्य, न विमुञ्चति रासभम् ? ।।३४१९।। . * अयं दृष्टान्तः त्रिषष्ट्यां नास्ति ।। १. देवदेवीयुग्मम् २ टि०, अश्विनीकुमारौ स्ववैद्यौ १० टि० ।। . ०% १ ।। 0 ०णुतो ६-१०।। * ०क्षु० ६.८-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org