________________
.
३२१
श्रीदशवैकालिकसूत्रम् बलस्तथाप्यजल्पन्तं, तं बन्धुं बन्धुवत्सलः । स्कन्धेऽध्यारोप्य सर्वत्रा-भ्राम्यञ्चान्वहमार्चयत् ।।३३९४ ।। एवं चातीत्य षण्मासी, भ्रातृस्नेहविमूढधीः ।
भ्राता सिद्धार्थदेवेन, ददृशेऽवधिना भ्रमन् ।।३३९५ ।। दध्यावहमनेनोक्तः, कृच्छ्रे मां बोधयेरिति । बोधनाय तदेतस्यो-पायान् कर्तुं प्रचक्रमे ।। ३३९६।। उत्तरन्तं महाशैला-चक्रे सोऽस्ममयं रथम् । उत्तीर्णं च ततो भग्नं, समभूमावदर्शयत् ।।३३९७ ।। रथिरूपोऽथ देवस्तं, निर्मातुं प्रावृतत् तदा । बँलोऽभ्यधत्त किं मूढ ! , न स्वविज्ञानवेद्यसि ।।३३९८ ।। नियूंढः स्थपुटक्षोण्यां, यः सेमे खण्डशो गतः । तं रथं स कथङ्कारं, भवान् सज्जयितुं क्षमः ? ।।३३९९ । । सोऽप्यूचेऽनेकयुद्धानि, जित्वा सुप्तोऽप्यथो मृतः । चेज्जीविष्यति ते भ्राता, भावी सज्जो रथोऽपि मे ।।३४०० ।। पाषाणे वप्तुमारेभे, पद्मकन्दानथामरः । बलोऽभ्यधत्त किं रोह-न्त्यब्जकन्दा दृषद्यहो ! ।।३४०१।। देवोऽप्याह यदायं ते, जीविष्यति मृतोऽनुजः । तदास्मन्यपि पद्मिन्यः, प्ररोक्ष्यन्ति न संशयः ।।३४०२।। सिञ्चन्तं कश्चन प्रेक्ष्य, दग्घवृक्षं बलोऽवदत् । किं सिक्तोऽपि तरुर्दग्घो, मुग्ध ! मुञ्चति पल्लवान् ? ।।३४०३।। तं प्रत्यूचे सुरः स्कन्ध-गतं तव शवं यदा । जीविष्यति तदा दग्धो-ऽप्येष वृक्षः प्ररोक्ष्यति ।।३४०४ ।। गोशवास्ये क्षिपन् दूर्वां, कश्चिदौच्यत शीरिणा । मृताश्चरन्ति किं गावः ?, कदाचिन् मूढमानस ! ।।३४०५ ।। देवोऽवदद् यदि स्कन्धे, जीविष्यति शवस्तव ।
गावो दूर्वां चरिष्यन्ति, मृता अपि तदा ध्रुवम् ।।३४०६।। * व्य० ६-१० ।। - इतः श्लोकत्रयप्रमाणपाठः ६-९ प्रतिषु नास्ति ।। 0 स्वं ५ ।। १. स्थले इति शेषः ।।
..
. दवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org