________________
३२० . श्रीतिलकाचार्यविरचितटीकायुतम्
जातो विष्णुः षोडशाब्दी कुमारः, षट्पञ्चाशद्वत्सरी मण्डलेशः । दिग्यात्राकृद् वत्सराण्यष्ट यावत्, चक्रयासीत् तन्यूनमाब्दं सहस्रम् ।।३३८२।। शालिनी
अम्भः पुटकिनीपत्र-पुटे कृत्वानयद् बलः । वैकुण्ठस्योपकण्ठं स, सम्प्राप्तोऽशकुनैरपि ।।३३८३।। निद्रामुद्रितनेत्राब्जः, सुखेनास्तीति स क्षणम् । स्थितः सन् दृष्टवान् रामः, रक्तं रक्तेन चीवरम् ।।३३८४ ।। ततोऽज्ञासीन्मृतः किं मे ?, बन्धुः सद्योऽर्थे मूर्छितः । पतति स्म क्षमापीठे, पेरासुरिव निःस्वनः ।।३३८५।। कथञ्चिलब्धचैतन्यः, सिंहनादं ततोऽमुचत् । सिंहागममिवाशय, तत्रास श्वापदव्रजः ।।३३८६।। . ऊचे च येन केनापि, श्रान्तः सुप्तो ममानुजः । .. हतो दुरात्मनात्मानं, स मे शंसतु पातकी ।।३३८७।। पुरस्तादत्र मे स स्ताद्,यदि वीरोऽस्ति कश्चन । सुप्तप्रमत्तभ्रूणर्षि-स्त्रीणां हत्यां करोति कः ? ॥३३८८ ।। आक्रोशत्रुच्चकैरेवं, रामस्तद्वनमभ्रमत् । प्रतिशब्दमदात् तस्मै, वनमेव न नोपरः ।।३३८९।। पुनः कृष्णमुपागत्य, मुञ्चन्नश्रूण्यवोचत । हा भ्रातर्भुवनत्रात-वीर ! धीरधुरन्धर ! ।।३३९०।। भवन्तमन्तरेणाहं, न स्थातुं क्षणमप्यलम् । क्क सा प्रीतिर्गता बन्धो !-ऽधुनालापेऽपि संशयः ।।३३९१।। यदि वा कुपितोऽसि त्वं, ततो वाचं न यच्छसि । कोपः कथमियांस्तेऽभून्-ममोपरि निरागसः ।।३३९२।। गतस्य मे पयोऽर्थं वा, लग्ना वेलेति रुष्टवान् ।
कोपः पलालज्वालेव, सतां विध्यायति क्षणात् ।।३३९३।। १. 'मृणालिनी पुटकिनी नलिनी पङ्कजिन्यपि'-अभिधान० ११६० ।। * वि० ६-१० ।। २. मृतमिव १० टि० ॥ ३. शब्दरहितः १० टि० ॥ ४. भवतात् ।। ५. नरः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org