________________
श्रीदशवैकालिकसूत्रम्
३१९ स्वर्भूर्भुवस्त्रयीशाय, तस्मै श्रीनेमये नमः । विमुच्य विषयान् द्वैधं, तीर्थं येन प्रवर्तितम् ।।३३६९।। इत्युक्त्वातीव संविज्ञः, तृणसंस्तरमास्थितः । जानूर्ध्वस्थपदो वस्त्रा-वृतो विष्णुरचिन्तयत् ।।३३७० ।। धन्यस्तत्र भवान्नेमि-ये च नेमि समाश्रिताः । न मग्नास्ते भवाम्भोधा-विवास्मिन्ननलाम्बुधौ ।।३३७१।। गृहवासं परित्यज्य, सिद्धिवासकृतस्पृहाः । धन्याः प्रवव्रजुर्ये ते, धिग् धिग् मां प्राप्तदुर्दशम् ।।३३७२।। सुखोपरि सुखं पूर्व, ममाभूदधिकाधिकम् । दुःखोपर्यधुना दुःखं, भवदस्ति हहा ! मम ।। ३३७३।। एवं भावयतस्तस्य, भावनामात्मपावनाम् । तृष्णाशोकांह्रिघाताद्यै-वेदनाजनि दुःसहा ।।३३७४ ।। द्वीपायनेन राज्यादि-सर्वस्वेऽपहते तया । विवेकरत्नमन्तस्थ-मपि वेदनया हतम् ।।३३७५ ।। अथाभवदपध्यानं, विष्णोद्वैिपायनं प्रति । आजन्मतोऽपि नैवाहं, परिभूतोऽस्मि केनचित् ।।३३७६।। पितरौ येन मे दग्धौ, दग्धं सर्वं कुलं मम । सपौरापि पुरी चेयं, मम चेयं दशा कृता ।।३३७७।। इदानीमपि तं पापं, वैरिणं चेद् विलोकये । स्वयं तं खण्डशः कुर्वे, कस्त्राता तस्य मे पुरः ? ।।३३७८ ।। एवं क्रोधातिरेकेण, गुञ्जापुञ्जारुणेक्षणः । समासहस्रपूर्णायुः, कर्मभिः प्राग्निकाचितैः ।।३३७९।। रौद्रध्यानविमानेन, दुर्लेश्यान्तःपुरीयुतः । स मोहच्छत्रधारश्च, मात्सर्यामात्यसङ्गतः ।।३३८० ।। सैकचत्वारिंशत्शत-कर्मप्रकृतिपत्तिभिः । सहितो गतवान् विश्वक्-सेनस्तार्तीयकावनौ ।।३३८१।। आशु ६-१० ।। । शतेनैकचत्वारिंशता कर्माख्यपत्तिभिः । युक्तोऽगाद्विष्णुः पातालस्वर्ग तार्तीयकावनौ २.६-१० अयं मूलपाठः १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org