________________
३१८ .
श्रीतिलकाचार्यविरचितटीकायुतम् प्रवासस्य प्रयासस्ते, द्वादशाब्दीमभूद् वृथा । यदि वा तीर्थनाथोक्तं, कदापि स्यात् किमन्यथा ? ।।३३५६।। सोऽपि तं प्रत्यभिज्ञाय, कृष्णं कृष्णतमाननः । रुदन्नुच्चैरुपायातो, मुमूर्छ विललाप च ।।३३५७।। लब्धसंज्ञः कथमपि, शोकार्तः पृष्टवान् रुदन् । भ्रातः! किमीदृशमिदम् ?, किं प्रभूक्तोऽभवद् विधिः ? ।।३३५८ ।। सर्वमाख्यातवान् कृष्णः, सार्वज्ञं नान्यथा वचः । ' जरासूः स्माह हातिथ्यं, चक्रे भ्रातुरुपेयुषः ।।३३५९।। शुशोचात्मानमत्यन्तं, भ्रातृघातनदुःखतः । किं जातोऽहं यदुकुले ?, जातो वा न मृतः कथम् ? ।।३३६० ।। स्वामिनैवमथाख्याते, हतः स्वात्मा मया न किम् ? । यद्वा मया त्वया चापि, नोल्लध्या भवितव्यता ।।३३६१ ।। विष्णुरूचे त्वमेवैको, यदुबीजमिवोद्धृतः । तद् याहि पाण्डवोपान्ते, सहायाः सन्तु तेऽधुना ।।३३६२ ।। रामस्त्वामन्यथायातो, मा वधीन् मद्वधक्रुधा .। निजं कौस्तुभमुन्मूल्या-भिज्ञानाय समार्पयत् ।।३३६३ ।। मद्वाचा क्षमयेः पाण्डु-सुतान् राज्ञोऽपरानपि । मया प्राक् प्राभवान्धेन, क्लेशितान् प्रेषणादिभिः ।।३३६४ ।। वारंवारमसावेवं, कृष्णेनोक्तो जरासुतः । क्रमतामरसाद् विष्णोः, समाकृष्य शिलीमुखम् ।।३३६५ ।। तदात्मनो जिगमिषो-निर्गमद्वारदर्शकम् । नत्वा पश्चात् पदैः किञ्चिद्, रामान्वेषणभीतितः ।।३३६६ ।।
गते जराकुमारेऽथ, पाण्डवानां पुरीं प्रति । पदवेदनयार्तोऽथ, विष्णुराराधनां व्यधात् ।।३३६७ ।। उत्तराभिमुखीभूय, कोशीकृतकराम्बुजः ।
पञ्चभ्यः परमेष्ठिभ्यः, त्रैधं कृतनमस्कृतिः ।।३३६८ ।। १. क्रमकमलात् १० टि० ।। * त्रैविधं च न० ५, त्रैधिं कृत० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org