SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् गत्वाथ बहिरुद्याने, भुक्त्वा ते भक्तपानके । कौशाम्बं वनमियतुः ।।३३४३।। सञ्जातौ निर्वृतौ तस्मात्, भीष्मग्रीष्मातपक्रान्तः, कृष्णस्तृष्णातुरस्तदा । तत्रास्थान् मृत्युनेवोक्तः, पयसे यान् बलोऽवदत् । । ३३४४ ।। तिष्ठेस्त्वमप्रमत्तोऽत्र, भ्रातर्यावदुपैम्यहम् । न पुण्यं नापि देवास्ते, साम्प्रतं सन्ति रक्षकाः ।। ३३४५ ।। गते रामे हरिर्मार्ग-तरोर्मूलेऽस्वपीत् तदा । जानू परिक्रमं न्यस्याच्छाद्य स्वं पीतवाससा । । ३३४६ ।। तत्रैवारण्यगर्भेऽथ, भ्रमन् जराकुमारकः । कृतान्तप्रेरितं इवा-भ्यागादादिष्टसर्पवत् ।।३३४७।। कृष्णं पीताम्बरच्छंन्नं, दृष्ट्वा रुक्मकुरङ्गवत् । दारुणां यमजिह्वावद्, भल्लीमाकृष्य सोऽमुचत् ।।३३४८ ।। सा कृष्णाहितलेऽविक्ष-दाक्रष्टुमिव जीवितम् । मुनेश्चिलातीपुत्रस्य, क्रमयोः कीटिका इव ।।३३४९ ।। काण्डाहतः क्रोड इव, कृष्णोऽवक् सहसोत्थितः । प्रहतोऽहमनाभाष्य, निर्मन्तुः केन जन्तुना ? ।।३३५० ।। अज्ञातकुलगोत्राख्यः, कोऽपि न प्रहतो मया । त्वमप्यात्मीयमाख्याहि, कुलं गोत्रं च नाम च ।। ३३५१ ।। द्रुमान्तरस्थः सोऽप्याह, यदुवंशसमुद्भवः । जरोदरसरोहंसः, सूनुरानकदुन्दुभेः ।। ३३५२।। नाम्ना जराकुमारोऽहं, रामदामोदराग्रजः । मत्तो मृत्युं हरेराख्यन्, नेम्यतोऽहमिहावसम् ।।३३५३ ।। युग्मम् ममात्र वसतो हन्त !, जाता द्वादशवत्सरी । अमानुषं वनमिदं, कस्त्वमत्रागतः कुतः ? ।। ३३५४ ।। कृष्णस्तमथ विज्ञाया-ऽवोचद् भ्रातरुपैहि भोः ! । सोऽहं भ्राता तवैष त्वं, यत्कृते क्लेशमन्वभूः ।। ३३५५ ।। १. राक्षसः शूकरो वा १० टि० ।। २. अनपराधी ।। Jain Education International For Personal & Private Use Only ३१७ www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy