SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३१६ . श्रीतिलकाचार्यविरचितटीकायुतम् . स्यात् तत्र मम वैधुर्यं, यदि किञ्चित् कुतोऽपि हि । मत्कृतं सिहनादं तत्, श्रुत्वा सत्वरमापतेः ।।३३३०।। इत्युदीर्य पुरे तत्र, प्रविवेशाच्युताग्रजः । पौरा: प्रेक्षन्त विस्मेरा-स्तं रूपापास्तदैवतम् ।।३३३१ ।। द्वारिकायाः प्रज्वलन्त्या, मन्येऽसौ निर्ययौ बलः । स एवायमिहायातो, निश्चिकायेति तं जनः ।।३३३२।। . . कोन्दुकादाददे भोज्य-मङ्गुलीयेन शीरभृत् । शौण्डिकान्मदिरां दिव्यां, सुवर्णकटकेन च ।।३३३३।। तद् गृहीत्वा बलो यावत्, प्रतोलीसन्निधावगात् । आरक्षकास्तमालोक्य, विस्मिता भूभुजेऽभ्यधुः ।।३३३४ ।। तत्राच्छदन्तो राजाभूद्, धृतराष्ट्रस्य नन्दनः । । मृतः प्रायः कृतः पूर्वं, पाण्डवैः कृष्णपाक्षिकैः ।।३३३५ ।। आरक्षका नृपस्याख्यन्, महाये कटकोर्मिके । .. दत्वा मद्यं च भोज्यं च, चौरवत् त्वत्पुरेऽग्रहीत् ।।३३३६।। मूर्त्या राम इवोद्दामः, सम्प्रत्यस्ति बहिर्वजन् ।. नीलाम्बरो वा चौरो वा, स निश्चेतुं न पार्यते ।।३३३७ ।। अथाच्छदन्तः सौंधे-णाप्यढौकत तं प्रति । प्यधापयत् प्रतोली च, यथासौ न पलायते ।।३३३८।। मुक्त्वैकत्रानपाने ते, करिस्तम्भधृतायुधः । दण्डपाणिरिवाधावत्, कृतक्ष्वेडो रिपून् प्रति ।।३३३९ ।। आकर्ण्य कृष्णस्तत्रैत्य, पार्णिप्रहतगोपुरः । प्रविवेश पुरस्यान्त-हरिवत् करिकाननम् ।।३३४० ।। कृष्णोऽप्यादाय परिघं, यावदायातवांस्ततः । अच्छदन्तोऽथ दन्तात्त-तृणो भीत्यानमत् तयोः ।।३३४१।। ततोऽसौ रामकृष्णाभ्या-मपराध्यप्यमुच्यत । प्रणामान्तः प्रकोपो यद्, गुरूणामभिधीयते ।।३३४२।। १. वैकल्यम् १० टि० ।। २. कन्दोय इति भाषायाम् ।। ३. मद्यविक्रेतुः १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy